Utshovऐप डाउनलोड करें

सर्ग 59

59.1

तस्मिन् हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे ।
भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ।। ६.५९.१ ।।।।

59.2

गत्वा ऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् ।
तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ।। ६.५९.२ ।।।।

59.3

सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः ।
उवाच तान्नैर्ऋतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ।। ६.५९.३ ।।।।

59.4

नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ।
सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ।। ६.५९.४ ।।।।

59.5

सो ऽहं रिपुविनाशाय विजयायाविचारयन् ।
स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ।। ६.५९.५ ।।।।

59.6

अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ।
निर्दहिष्यामि वाणौघैर्वनं दीप्तैरिवाग्निभिः ।। ६.५९.६ ।।।।

59.7

स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् ।
प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ।। ६.५९.७ ।।।।

59.8

स शङ्खभैरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः ।
पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ।। ६.५९.८ ।।।।

59.9

स शैलजीमूतनिकाशरूपैर्मांसादनैः पावकदीप्तनेत्रेः ।
बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवासुरेशः ।। ६.५९.९ ।।।।

59.10

ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।
महार्णवाभ्रस्तनितं ददर्शं समुद्यतं पादपशैलहस्तम् ।। ६.५९.१० ।।।।

59.11

तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः ।
विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ।। ६.५९.११ ।।।।

59.12

नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम् ।
सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ।। ६.५९.१२ ।।।।

59.13

ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः ।
शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ।। ६.५९.१३ ।।।।

59.14

यो ऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः ।
प्रकम्पयन्नागशिरो ऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ।। ६.५९.१४ ।।।।

59.15

यो ऽसौ रथस्थो मृगराजकेतुर्धून्वन् धनुः शक्रधनुःप्रकाशम् ।
करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ।। ६.५९.१५ ।।।।

59.16

यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थो ऽतिरथो ऽतिवीरः ।
विस्फारयंश्चापमतुल्यमानं नाम्ना ऽतिकायो ऽतिविवृद्धकायः ।। ६.५९.१६ ।।।।

59.17

यो ऽसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ।
गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ।। ६.५९.१७ ।।।।

59.18

यो ऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् ।
प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषो ऽशनितुल्यवेगः ।। ६.५९.१८ ।।।।

59.19

यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम् ।
वृषेन्द्रमास्थाय गिरिप्रकाशमायाति यो ऽसौ त्रिशिरा यशस्वी ।। ६.५९.१९ ।।।।

59.20

असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः ।
समाहितः पन्नगराजकेतुर्विस्फारयन् भाति धनुर्विधून्वन् ।। ६.५९.२० ।।।।

59.21

यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य ।
आयाति रक्षोबलकेतुभूतस्त्वसौ निकुम्भो ऽद्भुतघोरकर्मा ।। ६.५९.२१ ।।।।

59.22

यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् ।
रथं समास्थाय विभात्युदग्रो नरान्तको ऽसौ नगशृङ्गयोधी ।। ६.५९.२२ ।।।।

59.23

यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः ।
भूतैर्वृतो भाति विवृत्तनेत्रैः सो ऽसौ सुराणामपि दर्पहन्ता ।। ६.५९.२३ ।।।।

59.24

यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम् ।
अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ।। ६.५९.२४ ।।।।

59.25

असौ किरीटी चलुकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः ।
महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ।। ६.५९.२५ ।।।।

59.26

प्रत्युवाच ततो रामो विभीषणमरिन्दमम् ।
अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ।। ६.५९.२६ ।।।।

59.27

आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः ।
सुव्यक्तं लक्षये ह्यस्य रूपं तेजस्समावृतम् ।। ६.५९.२७ ।।।।

59.28

देवदानववीराणां वपुर्नैवंविधं भवेत् ।
यादृशं राक्षसेन्द्रस्य वपुरेतत् प्रकाशते ।। ६.५९.२८ ।।।।

59.29

सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः ।
सर्वे दीप्तायुधधरा योधाश्चास्य महौजसः ।। ६.५९.२९ ।।।।

59.30

भाति राक्षसराजो ऽसौ प्रदीप्तैर्भीमविक्रमैः ।
भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ।। ६.५९.३० ।।।।

59.31

दिष्ट्या ऽयमद्य पापात्मा मम दृष्टिपथं गतः ।
अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ।। ६.५९.३१ ।।।।

59.32

एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ।
लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ।। ६.५९.३२ ।।।।

59.33

ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि ।
द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ।। ६.५९.३३ ।।।।

59.34

इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा ।
शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः ।। ६.५९.३४ ।।।।

59.35

विसर्जयित्वा सहितांस्ततस्तान् गतेषु रक्षस्सु यथानियोगम् ।
व्यदारयद्वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ।। ६.५९.३५ ।।।।

59.36

तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ।
महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ।। ६.५९.३६ ।।।।

59.37

तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय ।
तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ।। ६.५९.३७ ।।।।

59.38

तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विकीर्णे पतिते पृथिव्याम् ।
महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः ।। ६.५९.३८ ।।।।

59.39

स तं गृहीत्वा ऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् ।
बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ।। ६.५९.३९ ।।।।

59.40

स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः ।
सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः ।। ६.५९.४० ।।।।

59.41

स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः ।
तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ।। ६.५९.४१ ।।।।

59.42

ततो गवाक्षो गवयः सुदंष्ट्रस्तथर्षभो ज्योतिमुखो नभश्च ।
शैलान् समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ।। ६.५९.४२ ।।।।

59.43

तेषां प्रहारान् स चकार मोघान् रक्षोधिपो बाणगणैः शिताग्रैः ।
तान् वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ।। ६.५९.४३ ।।।।

59.44

ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना विपेतुर्भुवि भीमकायाः ।
ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ।। ६.५९.४४ ।।।।

59.45

ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः ।
शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ।। ६.५९.४५ ।।।।

59.46

ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम ।
तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ।। ६.५९.४६ ।।।।

59.47

काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः ।
विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ।। ६.५९.४७ ।।।।

59.48

तमब्रवीन्महतेजा रामः सत्यपराक्रमः ।
। ६.५९.४८ ।।।।

59.49

गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ।
रावणो हि महावीर्यो रणे ऽद्भुतपराक्रमः ।त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ।। ६.५९.४९ ।।।।

59.50

तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय ।
चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः ।। ६.५९.५० ।।।।

59.51

राघवस्य वचः श्रुत्वा परिष्वज्याभिपूज्य च ।
अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ।। ६.५९.५१ ।।।।

59.52

स रावणं वारणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ।
प्रच्छादयन्तं शरवृष्टिजालैस्तान् वानरान् भिन्नविकीर्णदेहान् ।। ६.५९.५२ ।।।।

59.53

तमालोक्य महातेजा हनुमान् मारुतात्मजः ।
निवार्य शरजालानि प्रदुर्द्राव स रावणम् ।। ६.५९.५३ ।।।।

59.54

रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ।
त्रासयन् रावणं धीमान् हनुमान् वाक्यमब्रवीत् ।। ६.५९.५४ ।।।।

59.55

देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः ।
अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ।। ६.५९.५५ ।।।।

59.56

एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।
विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ।। ६.५९.५६ ।।।।

59.57

श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः ।
संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ।। ६.५९.५७ ।।।।

59.58

क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि ।
ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ।। ६.५९.५८ ।।।।

59.59

रावणस्य वचः श्रुत्वा वायुसूनुर्वचो ऽब्रवीत् ।
प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ।। ६.५९.५९ ।।।।

59.60

एवमुक्तो महातेजा रावणो राक्षसेश्वरः ।
आजघानानिलसुतं तलेनोरसि वीर्यवान् ।। ६.५९.६० ।।।।

59.61

स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ।
स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ।आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ।। ६.५९.६१ ।।।।

59.62

ततस्तलेनाभिहतो वानरेण महात्मना ।
दशग्रीवः समाधूतो यथा भूमिचले ऽचलः ।। ६.५९.६२ ।।तिः ।।।

59.63

सङ्ग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ।
ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः ।। ६.५९.६३ ।।।।

59.64

अथाश्वास्य महातेजा रावणो वाक्यमब्रवीत् ।
। ६.५९.६४ ।।।।

59.65

साधु वानर वीर्येण श्लाघनीयो ऽसि मे रिपुः ।
रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ।। ६.५९.६५ ।।।।

59.66

धिगस्तु मम वीर्येण यस्त्वं जीवसि रावण ।
सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ।ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम् ।। ६.५९.६६ ।।।।

59.67

ततो मारुतिवाक्येन क्रोदस्तस्य तदा ऽज्वलत् ।
। ६.५९.६७ ।।दानीं दुर्बुद्धे किं विकत्थसे ।संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ।पातयामास वेगेन वानरोरसि वीर्यवान् ।। ६.५९.६८ ।।।।

59.68

हनुमान् वक्षसि व्यूढे सञ्चचाल पुनःपुनः ।
। ६.५९.६९ ।।।।

59.69

विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ।
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ।। ६.५९.७० ।।।।

59.70

राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् ।
पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः ।शरैरादीपयामास नीलं हरिचमूपतिम् ।। ६.५९.७१ ।।।।

59.71

स शरौघसमायस्तो नीलः कपिचमूपतिः ।
करेणैकेन शेलाग्रं रक्षोधिपतये ऽसृजत् ।। ६.५९.७२ ।।।।

59.72

हनुमानपि तेजस्वी समाश्वस्तो महामनाः ।
विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ।। ६.५९.७३ ।।।।

59.73

नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् ।
अन्येन युद्ध्यमानस्य न युक्तमभिधावनम् ।। ६.५९.७४ ।।।।

59.74

रावणो ऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ।
आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ।। ६.५९.७५ ।।।।

59.75

तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः ।
कालाग्निरिव जज्वाल क्रोधोन परवीरहा ।। ६.५९.७६ ।।।।

59.76

सो ऽश्वकर्णान् धवान् सालांश्चूतांश्चापि सुपुष्पितान् ।
अन्यांश्च विविधान् वृक्षान्नीलश्चिक्षेप संयुगे ।। ६.५९.७७ ।।।।

59.77

स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः ।
अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम् ।। ६.५९.७८ ।।।।

59.78

अभिवृष्टः शरौघेण मेघेनेव महाचलः ।
ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ।। ६.५९.७९ ।।।।

59.79

पावकात्मजमालोक्य ध्वजाग्रे समुपस्थितम् ।
जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ।। ६.५९.८० ।।।।

59.80

ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् ।
लक्ष्मणो ऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ।। ६.५९.८१ ।।।।

59.81

रावणो ऽपि महातेजाः कपिलाघवविस्मितः ।
अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ।। ६.५९.८२ ।।।।

59.82

ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवङ्गमाः ।
नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ।। ६.५९.८३ ।।।।

59.83

वानराणां च नादेन संरब्धो रावणस्तदा ।
सम्भ्रमाविष्टहृदयो न किञ्चित् प्रत्यपद्यत ।। ६.५९.८४ ।।।।

59.84

आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ।
ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ।ततो ऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ।। ६.५९.८५ ।।।।

59.85

कपे लाघवयुक्तो ऽसि मायया परया ऽनया ।
जीवितं खलु रक्षस्व यदि शक्तो ऽसि वानर ।। ६.५९.८६ ।।।।

59.86

तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः ।
। ६.५९.८७ ।।।।

59.87

तथापि त्वां मया युक्तः सायको ऽस्त्रप्रयोजितः ।
जीवतं परिरक्षन्तं जीविताद् भ्रंशयिष्यति ।। ६.५९.८८ ।।।।

59.88

एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः ।
सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ।। ६.५९.८९ ।।।।

59.89

सो ऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ।
निर्दह्यमानः सहसा निपपात महीतले ।। ६.५९.९० ।।।।

59.90

पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा ।
जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ।। ६.५९.९१ ।।।।

59.91

विसञ्ज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ।
रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ।। ६.५९.९२ ।।।।

59.92

आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन् ।
धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ।। ६.५९.९३ ।।।।

59.93

तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् ।
अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हः ।। ६.५९.९४ ।।।।

59.94

स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा ।
आसाद्य सौमित्रिमवस्थितं तं कोपान्वितो वाक्यमुवाच रक्षः ।। ६.५९.९५ ।।।।

59.95

दिष्ट्या ऽसि मे राघव दृष्टिमार्गं प्राप्तो ऽन्तगामी विपरीतबुद्धिः ।
अस्मिन् क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ।। ६.५९.९६ ।।।।

59.96

तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम् ।
राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ।। ६.५९.९७ ।।।।

59.97

जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च ।
अवस्थितो ऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ।। ६.५९.९८ ।।।।

59.98

स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान् सुपुङ्खान् ।
तान् लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ।। ६.५९.९९ ।।।।

59.99

तान् प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् ।
लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान् पृषत्कान् ।। ६.५९.१०० ।।।।

59.100

स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम् ।
क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ।। ६.५९.१०१ ।।।।

59.101

स बाणजालान्यथ तानि तानि मोघानि पश्यं स्त्रिदशारिराजः ।
विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान्निशितान् मुमोच ।। ६.५९.१०२ ।।।।

59.102

स लक्ष्मणश्चाशु शरान् शिताग्रान् महेन्द्रवज्राशनितुल्यवेगान् ।
सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोधिपतेर्वधाय ।। ६.५९.१०३ ।।।।

59.103

स तान् प्रचिच्छेद हि राक्षसेन्द्रश्छित्त्वा च ताँल्लक्ष्मणमाजघान ।
शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ।। ६.५९.१०४ ।।।।

59.104

स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य ।
पुनश्च सञ्ज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ।। ६.५९.१०५ ।।।।

59.105

निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रः ।
स सायकार्तो विचचाल राजा कृच्छ्राच्च सञ्ज्ञां पुनराससाद ।। ६.५९.१०६ ।।।।

59.106

स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः ।
जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ।। ६.५९.१०७ ।।।।

59.107

स तां विधूमानलसन्निकाशां वित्रासिनीं वानरवाहिनीनाम् ।
चिक्षेप शक्तिं तरसाज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ।। ६.५९.१०८ ।।।।

59.108

तामापतन्तीं भरतानुजोग्रैर्जघान बाणैश्च हुताग्निकल्पैः ।
तथापि सा तस्य विवेश शक्तिर्बाह्वन्तरं दाशरथेर्विशालम् ।। ६.५९.१०९ ।।।।

59.109

स शक्तिमान् शक्तिसमाहतः सन् मुहुः प्रजज्वाल रघुप्रवीरः ।
तं विह्वलन्तं सहसा ऽभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ।। ६.५९.११० ।।।।

59.110

हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।
शक्यं भुजाभ्यामुद्धर्तु न सङ्ख्ये भरतानुजः ।। ६.५९.१११ ।।।।

59.111

शक्त्या ब्राह्म्या ऽपि सौमित्रिस्ताडितस्तु स्तनान्तरे ।
विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् ।। ६.५९.११२ ।।।।

59.112

ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ।
तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घने ऽभवत् ।अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ।। ६.५९.११३ ।।।।

59.113

अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ।
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ।। ६.५९.११४ ।।।।

59.114

तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ।
जानुभ्यामपतद्भूमौ चचाल च पपात च ।। ६.५९.११५ ।।।।

59.115

आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु ।
। ६.५९.११६ ।।।।

59.116

विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ।
विसञ्ज्ञो मूर्च्छितश्चासीन्न च स्थानं समालभत् ।। ६.५९.११७ ।।।।

59.117

विसञ्ज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।
ऋषयो वानराः सर्वे नेदुर्देवाः सवासवाः ।। ६.५९.११८ ।।।।

59.118

हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।
अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ।। ६.५९.११९ ।।।।

59.119

वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।
शत्रूणामप्रकम्प्यो ऽपि लघुत्वमगमत् कपेः ।। ६.५९.१२० ।।।।

59.120

तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।
रावणस्य रथे तस्मिन् स्थानं पुनरुपागता ।। ६.५९.१२१ ।।।।

59.121

आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।
विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ।। ६.५९.१२२ ।।।।

59.122

रावणो ऽपि महातेजाः प्राप्य सञ्ज्ञां महाहवे ।
आददे निशितान् बाणान् जग्राह च महद्धनुः ।। ६.५९.१२३ ।।।।

59.123

निपातितमहावीरां द्रवन्तीं वानरीं चमूम् ।
राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ।। ६.५९.१२४ ।।।।

59.124

अथैनमुपसङ्गम्य हनुमान् वाक्यमब्रवीत् ।
मम पृष्टं समारुह्य राक्षसं शास्तुमर्हसि ।। ६.५९.१२५ ।।।।

59.125

विष्णुर्यथा गरुत्मन्तं बलवन्तं समाहितः ।
तच्छुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।आरुरोह महाशूरो बलवन्तं महाकपिम् ।। ६.५९.१२६ ।।।।

59.126

रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः ।
। ६.५९.१२७ ।।।।

59.127

ा राघवो वाक्यं वायुपुत्रेण भाषितम् ।
तमालोक्य माहतेजाः प्रदुद्राव स राघवः ।वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ।। ६.५९.१२८ ।।।।

59.128

ज्याशब्दमकरोत्तीवं वज्रनिष्पेषनिस्वनम् ।
। ६.५९.१२९ ।।।।

59.129

गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ।
। ६.५९.१३० ।। ।।।

59.130

तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीद्दशम् ।
क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ।। ६.५९.१३१ ।।।।

59.131

यदीन्द्रवैवस्वतभास्करान् वा स्वयम्भुवैश्वानरशङ्करान् वा ।
गमिष्यसि त्वं दश वा दिशो ऽथवा तथापि मे नाद्य गतो विमोक्ष्यसे ।। ६.५९.१३२ ।।।।

59.132

यश्चैव शक्त्या ऽभिहतस्त्वया ऽद्य इच्छन् विषादं सहसा ऽभ्युपेतः ।
स एव रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्ययुद्धे ।। ६.५९.१३३ ।।।।

59.133

एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि ।
चतुर्दशान्यात्तवरायुधानि रक्षस्सहस्राणि निषूदितानि ।। ६.५९.१३४ ।।।।

59.134

राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ।
वायुपुत्रं महावीर्यं वहन्तं राघवं रणे ।आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ।। ६.५९.१३५ ।।।।

59.135

राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ।
स्वभावतेजोयुक्तस्य भूयस्तेजो ऽभ्यवर्धत ।। ६.५९.१३६ ।।।।

59.136

ततो रामो महातेजा रावणेन कृतव्रणम् ।
दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ।। ६.५९.१३७ ।।।।

59.137

तस्याभिचङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।
ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ।। ६.५९.१३८ ।।।।

59.138

अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसन्निभेन ।
भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ।। ६.५९.१३९ ।।।।

59.139

यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा ।
स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ।। ६.५९.१४० ।।।।

59.140

तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् ।
तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा ।। ६.५९.१४१ ।।।।

59.141

तं निर्विषाशीविषसन्निकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् ।
गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ।। ६.५९.१४२ ।।।।

59.142

कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश्च कृतस्त्वया ऽहम् ।
तस्मात् परिश्रान्त इव व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ।। ६.५९.१४३ ।।।।

59.143

गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् ।
आश्वास्य निर्याहि रथी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ।। ६.५९.१४४ ।।।।

59.144

स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः ।
शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा ।। ६.५९.१४५ ।।।।

59.145

तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ ।
हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे ।। ६.५९.१४६ ।।।।

59.146

तस्मिन् प्रभिन्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च ।
ससागराः सर्षिमहोरागाश्च तथैव भूम्यम्बुचराश्च हृष्टाः ।। ६.५९.१४७ ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.