सर्ग 58
58.1
ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ।। ५.५८.१ ।।।।
58.2
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।
जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ।। ५.५८.२ ।।।।
58.3
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।
तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ।। ५.५८.३ ।।।।
58.4
तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे ।
श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ।। ५.५८.४ ।।।।
58.5
यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।
रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ।। ५.५८.५ ।।।।
58.6
स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ।
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ।। ५.५८.६ ।।।।
58.7
प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः ।
उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ।। ५.५८.७ ।।।।
58.8
गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ।। ५.५८.८।।।।
58.9
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ।
। ५.५८.९ ।।।।
58.10
उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ।
कृता मे मनसा बुद्धिर्भेत्तव्यो ऽयं मयेति च ।। ५.५८.१० ।।।।
58.11
प्रहतं च मया तस्य लांगूलेन महागिरेः ।
शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।। ५.५८.११ ।।११७ ।।।।
58.12
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ।
पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।। ५.५८.१२ ।।।।
58.13
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।
मैनाकमिति विख्यातं निवसन्तं महोदधौ ।। ५.५८.१३ ।।।।
58.14
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।। ५.५८.१४ ।।।।
58.15
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ।
चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ।। ५.५८.१५ ।।।।
58.16
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ।
मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे ।। ५.५८.१६ ।।।।
58.17
रामस्य च मया साह्ये वर्तितव्यमरिन्दम ।
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।। ५.५८.१७ ।।।।
58.18
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ।
कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।। ५.५८.१८ ।।।।
58.19
तेन चाहमनुज्ञातो मैनाकेन महात्मना ।
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।शरीरेण महाशैलः शैलेन च महोदधौ ।। ५.५८.१९ ।।।।
58.20
उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।
ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ।। ५.५८.२० ।।।।
58.21
ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।
समुद्रमध्ये सा देवी वचनं मामभाषत ।। ५.५८.२१ ।।।।
58.22
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ।। ५.५८.२२ ।।।।
58.23
एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ।। ५.५८.२३ ।।।।
58.24
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ।। ५.५८.२४ ।।।।
58.25
तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ।। ५.५८.२५ ।।।।
58.26
कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।। ५.५८.२६ ।।।।
58.27
आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते ।
। ५.५८.२७ ।।।।
58.28
एवमुक्ता मया सा तु सुरसा कामरूपिणी ।
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।। ५.५८.२८ ।।।।
58.29
एवमुक्तः सुरसया दशयोजनमायतः ।
ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ।। ५.५८.२९ ।।।।
58.30
तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।
तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ।। ५.५८.३० ।।।।
58.31
अभिपत्याशु तद्वक्रं निर्गतो ऽहं ततः क्षणात् ।
अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ।। ५.५८.३१ ।।।।
58.32
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानय च वैदेहीं राघवेण महात्मना ।सुखी भव महाबाहो प्रीता ऽस्मि तव वानर ।। ५.५८.३२ ।।।।
58.33
ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ।
। ५.५८.३३ ।।
58.34
वैदेहीं राघवेण महात्मना ।
ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा ।छाया मे निगृहीता च न च पश्यामि किंचन ।। ५.५८.३४ ।।।।
58.35
सो ऽहं विगतवेगस्तु दिशो दश विलोकयन् ।
न किंचित्तत्र पश्यामि येन मे ऽपहृता गतिः ।। ५.५८.३५ ।।।।
58.36
ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम ।
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ५.५८.३६ ।।।।
58.37
अधोभागे न मे दृष्टिः शोचता पातिता मया ।
ततो ऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ।। ५.५८.३७ ।।।।
58.38
प्रहस्य च महानादमुक्तो ऽहं भीमया तया ।
अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।। ५.५८.३८ ।।।।
58.39
क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः ।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।। ५.५८.३९ ।।।।
58.40
बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।
आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ।तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।। ५.५८.४० ।।।।
58.41
न च मां साधु बुबुधे मम वा निकृतं कृतम् ।
। ५.५८.४१ ।।।।
58.42
ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।
तस्या हृदयमादाय प्रपतामि नभःस्थलम् ।। ५.५८.४२ ।।।।
58.43
सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।
मया पर्वतसङ्काशा निकृत्तहृदया सती ।। ५.५८.४३ ।।।।
58.44
श्रृणोमि खगतानां च सिद्धानां चारणैः सह ।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ।। ५.५८.४४ ।।।।
58.45
तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।
गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ।। ५.५८.४५ ।।।।
58.46
दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।
अस्तं दिनकरे याते रक्षसां निलयं पुरम् ।प्रविष्टो ऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः ।। ५.५८.४६ ।।।।
58.47
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ।
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।। ५.५८.४७ ।।।।
58.48
जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ।
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।। ५.५८.४८ ।।।।
58.49
प्रदोषकाले प्रविशं भीतया ऽहं तयोदितः ।
अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।। ५.५८.४९ ।।।।
58.50
यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः ।
। ५.५८.५० ।।।।
58.51
तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ।। ५.५८.५१ ।।।।
58.52
ततः सीतामपश्यंस्तु रावणस्य निवेशने ।
शोकसागरमासाद्य न पारमुपलक्षये ।। ५.५८.५२ ।।।।
58.53
शोचता च मया दृष्टं प्राकारेण समावृतम् ।
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ।। ५.५८.५३ ।।।।
58.54
स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ।
। ५.५८.५४ ।।।।
58.55
अशोकवनिकामध्ये शिंशुपापादपो महान् ।
तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।। ५.५८.५५ ।।।।
58.56
अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम् ।
श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।। ५.५८.५६ ।।।।
58.57
तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ।
शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।। ५.५८.५७ ।।।।
58.58
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।
मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।। ५.५८.५८ ।।।।
58.59
सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
एकवेणीधरा दीना भर्तृचिन्तापरायणा ।। ५.५८.५९ ।।।।
58.60
भूमिशय्या विवर्णाङ्गी पझिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ।। ५.५८.६० ।।।।
58.61
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।
तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ।। ५.५८.६१ ।।।।
58.62
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।
शृणोम्यधिकगम्भीरं रावणस्य निवेशने ।। ५.५८.६२ ।।।।
58.63
ततो ऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् ।
अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ।। ५.५८.६३ ।।।।
58.64
ततो रावणदाराश्च रावणश्च महाबलः ।
तं देशं समनुप्राप्त यत्र सीता ऽभवत् स्थिता ।। ५.५८.६४ ।।।।
58.65
तद् दृष्ट्वा ऽथ वरारोहा सीता रक्षोमहाबलम् ।
सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ।। ५.५८.६५ ।।।।
58.66
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।
त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ।। ५.५८.६६ ।।।।
58.67
तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।
अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ।। ५.५८.६७ ।।।।
58.68
यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।
द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ।। ५.५८.६८ ।।।।
58.69
एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।
उवाच परमक्रुद्धा सीता वचनमुत्तमम् ।। ५.५८.६९ ।।।।
58.70
राक्षसाधम रामस्य भार्यममिततेजसः ।
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।अवाच्यं वदतो जिह्वा कथं न पतिता तव ।। ५.५८.७० ।।।।
58.71
किंचिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ।
अपहृत्यागतः पाप तेनादृष्टो महात्मना ।। ५.५८.७१ ।।।।
58.72
न त्वं रामस्य सदृशो दास्ये ऽप्यस्य न युज्यसे ।
यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ।। ५.५८.७२ ।।।।
58.73
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।
जज्वाल सहसा कोपच्चितास्थ इव पावकः ।। ५.५८.७३ ।।।।
58.74
विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ।
मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ।। ५.५८.७४ ।।।।
58.75
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ।
वरा मण्डोदरी नाम तया स प्रतिषेधितः ।। ५.५८.७५ ।।।।
58.76
उक्तश्च मधुरां वाणीं तया स मदानार्दितः ।
सीतया तव किं कार्यं महेन्द्रसमविक्रम ।। ५.५८.७६ ।।।।
58.77
देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव च ।
सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।। ५.५८.७७ ।।।।
58.78
ततस्ताभिः समेताभिर्नारीभिः स महाबलः ।
प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ।। ५.५८.७८ ।।।।
58.79
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ।
सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ।। ५.५८.७९ ।।।।
58.80
तृणवद्भाषितं तासां गणयामास जानकी ।
गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।। ५.५८.८० ।।।।
58.81
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।
रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।। ५.५८.८१ ।।।।
58.82
ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।
परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ।। ५.५८.८२ ।।।।
58.83
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।
विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।। ५.५८.८३ ।।।।
58.84
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् ।
आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ।। ५.५८.८४ ।।।।
58.85
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ।
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।। ५.५८.८५ ।।।।
58.86
रक्षसां च विनाशाय भर्तुरस्या जयाय च ।
। ५.५८.८६ ।।।।
58.87
अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् ।
अभियाचाम वैदेहीमेतद्धि मम रोचते ।। ५.५८.८७ ।।।।
58.88
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ।
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ।। ५.५८.८८ ।।।।
58.89
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।
। ५.५८.८९ ।।।।
58.90
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ।
अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ।। ५.५८.९० ।।।।
58.91
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।
चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ।। ५.५८.९१ ।।।।
58.92
सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः ।
इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ।। ५.५८.९२ ।।।।
58.93
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ।
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।। ५.५८.९३ ।।।।
58.94
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ।
का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।। ५.५८.९४ ।।।।
58.95
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः ।
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ।। ५.५८.९५ ।।।।
58.96
तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ।
भर्त्रा ऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ।। ५.५८.९६ ।।।।
58.97
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।
अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ।। ५.५८.९७ ।।।।
58.98
तदिच्छामि त्वया ऽ ऽज्ञप्तं देवि किं करवाण्यहम् ।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ।। ५.५८.९८ ।।।।
58.99
एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।
आह रावणमुत्साद्य राघवो मां नयत्विति ।। ५.५८.९९ ।।।।
58.100
प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।
राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ।। ५.५८.१०० ।।।।
58.101
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः ।
मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ।। ५.५८.१०१ ।।।।
58.102
इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।
प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ।। ५.५८.१०२ ।।।।
58.103
ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः ।
प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ।। ५.५८.१०३ ।।।।
58.104
उत्तरं पुनरेवेदं निश्चित्य मनसा तया ।
हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ।। ५.५८.१०४ ।।।।
58.105
यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ।
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ।। ५.५८.१०५ ।।।।
58.106
यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।
न मां द्रक्ष्यति काकुत्स्थो म्रिये सा ऽहमनाथवत् ।। ५.५८.१०६ ।।।।
58.107
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।
उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ।। ५.५८.१०७ ।।।।
58.108
ततो ऽवर्धत मे कायस्तदा पर्वतसन्निभः ।
युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ।। ५.५८.१०८ ।।।।
58.109
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।
प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ।। ५.५८.१०९ ।।।।
58.110
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ।। ५.५८.११० ।।।।
58.111
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना ।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल ।। ५.५८.१११ ।।।।
58.112
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।
वधमाज्ञापय क्षिप्रं यथा ऽसौ विलयं व्रजेत् ।। ५.५८.११२ ।।।।
58.113
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।
राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ।। ५.५८.११३ ।।।।
58.114
तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।
मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ।। ५.५८.११४ ।।।।
58.115
तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।
निहतं च महत्सैन्यं रावणायाचचक्षिरे ।। ५.५८.११५ ।।।।
58.116
ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।
तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ।ललामभूतो लङ्कायाः स वै विध्वंसितो मया ।। ५.५८.११६ ।।।।
58.117
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ।
राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ।। ५.५८.११७ ।।।।
58.118
तमहं बलसम्पन्नं राक्षसं रणकोविदम् ।
परिघेणातिघोरेण सूदयामि सहानुगम् ।। ५.५८.११८ ।।५.५८.११७ ।।।।
58.119
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ।
। ५.५८.११९ ।।म् ।। ५.५८.११८ ।।५.५८.११७ ।।।।
58.120
पदातिबलसम्पन्नान् प्रेषयामास रावणः ।
परिघेणैव तान् सर्वान्नयामि यमसादनम् ।। ५.५८.१२० ।।११७ ।।।।
58.121
मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान् ।
पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः ।। ५.५८.१२१ ।।।।
58.122
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम् ।
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ।। ५.५८.१२२ ।।।।
58.123
बहुभी राक्षसैः सार्धं प्रेषयामास रावणः ।
तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ।। ५.५८.१२३ ।।।।
58.124
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ।तमक्षमागतं भग्नं निशम्य स दशाननः ।। ५.५८.१२४ ।।।।
58.125
तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।
व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ।। ५.५८.१२५ ।।।।
58.126
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ।
नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।। ५.५८.१२६ ।।।।
58.127
महतापि महाबाहुः प्रत्ययेन महाबलः ।
प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ।। ५.५८.१२७ ।।।।
58.128
सो ऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम् ।
ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः ।। ५.५८.१२८ ।।।।
58.129
रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः ।
रावणस्य समीपं च गृहीत्वा मामुपानयन् ।। ५.५८.१२९ ।।।।
58.130
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ।
पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।। ५.५८.१३० ।।।।
58.131
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ।
। ५.५८.१३१ ।।।।
58.132
अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो ।
मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ।। ५.५८.१३२ ।।।।
58.133
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।
सो ऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ।। ५.५८.१३३ ।।।।
58.134
सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ।
धर्मार्थकामसहितं हितं पथ्यमुवाच च ।। ५.५८.१३४ ।।।।
58.135
वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।
राघवो रणविक्रान्तो मित्रत्वं समुपागतः ।। ५.५८.१३५ ।।।।
58.136
तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।
तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ।। ५.५८.१३६ ।।।।
58.137
मया च कथितं तस्मै वालिनश्च वधं प्रति ।
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ।। ५.५८.१३७ ।।।।
58.138
वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।
चक्रे ऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ।। ५.५८.१३८ ।।।।
58.139
तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।
वानराणां महाराजः कृतः स प्लवता प्रभुः ।। ५.५८.१३९ ।।।।
58.140
तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।क्षिप्रमानीयतां सीता दीयतां राघवाय च ।। ५.५८.१४० ।।।।
58.141
यावन्न हरयो वीरा विधमन्ति बलं तव ।
। ५.५८.१४१ ।।
58.142
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।
वानराणां प्रभावो हि न केन विदितः पुरा ।देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ।। ५.५८.१४२ ।।।।
58.143
इति वानरराजस्त्वामाहेत्यभिहितो मया ।
मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ।। ५.५८.१४३ ।।।।
58.144
तेन वध्यो ऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।
मत्प्रभावमविज्ञाय रावणेन दुरात्मना ।। ५.५८.१४४ ।।।।
58.145
ततो विभीषणो नाम तस्य भ्राता महामतिः ।
तेन राक्षसराजो ऽसौ याचितो मम कारणात् ।। ५.५८.१४५ ।।।।
58.146
नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।
राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ।। ५.५८.१४६ ।।।।
58.147
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।
दूतेन वेदितव्यं च यथार्थं हितवादिना ।। ५.५८.१४७ ।।।।
58.148
सुमहत्यपराधे ऽपि दूतस्यातुलविक्रम ।
विरूपकरणं दृष्टं न वधो ऽस्तीति शास्त्रतः ।। ५.५८.१४८ ।।।।
58.149
विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।
राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ।। ५.५८.१४९ ।।।।
58.150
ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः ।
वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ।। ५.५८.१५० ।।।।
58.151
राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ।
तदा ऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ।बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।। ५.५८.१५१ ।।।।
58.152
ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।
अघोषयन् राजमार्गे नगरद्वारमागताः ।। ५.५८.१५२ ।।ः ।ततो ऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ।। ५.५८.१५३ ।।
58.153
राजमार्गे नगरद्वारमागताः ।
। ५.५८.१५२ ।।
58.154
ः ।
विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।। ५.५८.१५४ ।।।।
58.155
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।
दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।। ५.५८.१५५ ।।।।
58.156
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।
लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। ५.५८.१५६ ।।।।
58.157
दहता च मया लङ्कां दग्धा सीता न संशयः ।
रामस्य हि महत् कार्यं मयेदं वितथीकृतम् ।। ५.५८.१५७ ।।।।
58.158
इति शोकसमाविष्टश्चिन्तामहमुपागतः ।
। ५.५८.१५८ ।।।।
58.159
अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।
जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ।। ५.५८.१५९ ।।।।
58.160
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।
अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ।। ५.५८.१६० ।।।।
58.161
दीप्यमाने तु लाङ्गूले न मां दहति पावकः ।
हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ।। ५.५८.१६१ ।।।।
58.162
तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ।। ५.५८.१६२ ।।।।
58.163
पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ।
। ५.५८.१६३ ।।।।
58.164
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ।
प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ।। ५.५८.१६४ ।।।।
58.165
ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ।
पन्थानमहमाक्रम्य भवतो दृष्टवानिह ।। ५.५८.१६५ ।।।।
58.166
राघवस्य प्रभावेन भवतां चैव तेजसा ।
सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्टितम् ।। ५.५८.१६६ ।।।।
58.167
एतत्सर्वं मया तत्र यथावदुपपादितम् ।
अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ।। ५.५८.१६७ ।।