Utshovऐप डाउनलोड करें

सर्ग 52

52.1

धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ।
विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ।। ६.५२.१ ।।।।

52.2

तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् ।
अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ।। ६.५२.२ ।।।।

52.3

घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः ।
राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ।। ६.५२.३ ।।।।

52.4

वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ।
राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ।। ६.५२.४ ।।।।

52.5

ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः ।
। ६.५२.५ ।।श्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।।।

52.6

विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।
अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ।। ६.५२.६ ।।।।

52.7

शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।
जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ।। ६.५२.७ ।।।।

52.8

ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।
ममन्थू राक्षसान् भीमान्नामानि च बभाषिरे ।। ६.५२.८ ।।।।

52.9

तद्वभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।
शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः ।। ६.५२.९ ।।।।

52.10

राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।
ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ।। ६.५२.१० ।।।।

52.11

पार्श्वेषु दारिताः केचित् केचिद्राशीकृता द्रुमैः ।
शिलाभिश्चूर्णिताः केचित् केचिद्दन्तैर्विदारिताः ।। ६.५२.११ ।।।।

52.12

ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।
रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ।। ६.५२.१२ ।।।।

52.13

गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् ।
मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ।। ६.५२.१३ ।।।।

52.14

वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।
राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ।। ६.५२.१४ ।।।।

52.15

विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।
मूढाः शोणितगन्धेन निपेतुर्धरणीतले ।। ६.५२.१५ ।।।।

52.16

अन्ये परमसङ्क्रुद्धा राक्षसा भीमनिस्वनाः ।
तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ।। ६.५२.१६ ।।।।

52.17

वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ।
मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ।वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ।। ६.५२.१७ ।।।।

52.18

सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ।
क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ।। ६.५२.१८ ।।।।

52.19

प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ।
मुद्गरैराहताः केचित् पतिता धरणीतले ।। ६.५२.१९ ।।।।

52.20

परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः ।
पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ।। ६.५२.२० ।।।।

52.21

केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः ।
केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ।। ६.५२.२१ ।।।।

52.22

विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः ।
विदारिता स्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ।। ६.५२.२२ ।।।।

52.23

तत्सुभीमं महायुद्धं हरिराक्षससङ्कुलम् ।
प्रबभौ शब्दबहुलं शिलापादपसङ्कुलम् ।। ६.५२.२३ ।।।।

52.24

धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।
मन्दस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ ।। ६.५२.२४ ।।।।

52.25

धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि ।
हसन् विद्रावयामास दिशस्तु शरवृष्टिभिः ।। ६.५२.२५ ।।।।

52.26

धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः ।
अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।। ६.५२.२६ ।।।।

52.27

क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः ।
शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ।। ६.५२.२७ ।।।।

52.28

आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् ।
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ।। ६.५२.२८ ।।।।

52.29

सा प्रमथ्य रथं तस्य निपपात शिला भुवि ।
सचक्रकूबरं साश्वं सध्वजं सशरासनम् ।। ६.५२.२९ ।।।।

52.30

स भङ्क्त्वा तु रथं तस्य हनुमान् मारुतात्मजः ।
रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ।। ६.५२.३० ।।।।

52.31

विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ।
द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ।। ६.५२.३१ ।।।।

52.32

विद्राव्य रासक्षं सैन्यं हनुमान् मारुतात्मजः ।
गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ।। ६.५२.३२ ।।।।

52.33

तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ।
विनर्दमानः सहसा हनुमन्तमभिद्रवत् ।। ६.५२.३३ ।।।।

52.34

ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ।
पातयामास धूम्राक्षो मस्तके तु हनूमतः ।। ६.५२.३४ ।।।।

52.35

ताडितः स तया तत्र गदया भीमरूपया ।
। ६.५२.३५ ।।।।

52.36

स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।
धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ।। ६.५२.३६ ।।।।

52.37

स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।
पपात सहसा भूमौ विकीर्ण इव पर्वतः ।। ६.५२.३७ ।।।।

52.38

धूम्राक्षं निहतं दृष्टवा हतशेषा निशाचराः ।
त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ।। ६.५२.३८ ।।।।

52.39

स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च सन्निकीर्य ।
रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिश्च पूज्यमानः ।। ६.५२.३९ ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.