Utshovऐप डाउनलोड करें

सर्ग 53

53.1

धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः ।
क्रोधेन महता ऽ ऽविष्टो निश्वसन्नुरगो यथा ।। ६.५३.१ ।।।।

53.2

दीर्घमुष्णं विनिश्वस्य क्रोधेन कलुषीकृतः ।
अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम् ।। ६.५३.२ ।।।।

53.3

गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः ।
जहि दाशरथिं रामं सुग्रीवं वानरैः सह ।। ६.५३.३ ।।।।

53.4

तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः ।
निर्जगाम बलै सार्धं बहुभिः परिवारितः ।। ६.५३.४ ।।।।

53.5

नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसामाहितः ।
पताकाध्वजचित्रैश्च रथैश्च समलङ्कृतः ।। ६.५३.५ ।।।।

53.6

ततो विचित्रकेयूरमुकुटैश्च विभूषितः ।
तनुत्राणि च संरुद्ध्य सधनुर्निर्ययौ द्रुतम् ।। ६.५३.६ ।।।।

53.7

पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषणम् ।
रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ।। ६.५३.७ ।।।।

53.8

यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि ।
भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टिशैरपि ।। ६.५३.८ ।।।।

53.9

खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः ।
पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ।विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः ।। ६.५३.९ ।।।।

53.10

गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः ।
ते युद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ।। ६.५३.१० ।।।।

53.11

अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ।
। ६.५३.११ ।।।।

53.12

तद्राक्षसबलं घोरं विप्रस्थितमशोभत ।
प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ।। ६.५३.१२ ।।।।

53.13

निस्सृता दक्षिणद्वारादङ्गदो यत्र यूथपः ।
तेषां निष्क्रममाणानामशुभं समजायत ।। ६.५३.१३ ।।।।

53.14

आकाशाद्विघनात्तीव्रा उल्काश्चाभ्यपतंस्तदा ।
वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ।। ६.५३.१४ ।।।।

53.15

व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा ।
समापतन्तो योधास्तु प्रास्खलन् भयमोहिताः ।। ६.५३.१५ ।।।।

53.16

एतानौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः ।
धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ।। ६.५३.१६ ।।।।

53.17

तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः ।
प्रणेदुः सुमहानादान् पूरयंश्च दिशो दश ।। ६.५३.१७ ।।।।

53.18

ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह ।
घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ।। ६.५३.१८ ।।।।

53.19

निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः ।
रुधिरोक्षितसर्वाङ्गा न्यपतन् जगतीतले ।। ६.५३.१९ ।।।।

53.20

केचिदन्योन्यमासाद्य शूराः परिघपाणयः ।
चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः ।। ६.५३.२० ।।।।

53.21

द्रुमाणां च शिलानां च शस्त्राणां चापि निस्वनः ।
श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ।। ६.५३.२१ ।।।।

53.22

रथनेमिस्वनस्तत्र धनुषश्चापि निस्वनः ।
शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ।। ६.५३.२२ ।।।।

53.23

केचिदस्त्राणि संसृज्य बाहुयुद्धमकुर्वत ।
। ६.५३.२३ ।।।।

53.24

तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ।
जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः ।शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ।। ६.५३.२४ ।।।।

53.25

वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन् हरीन् ।
चचार लोकसंहारे पाशहस्त इवान्तकः ।। ६.५३.२५ ।।।।

53.26

बलवन्तो ऽस्त्रविदुषो नानाप्रहरणा रणे ।
जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्च्छिताः ।। ६.५३.२६ ।।।।

53.27

निघ्नुतो राक्षसान् दृष्ट्वा सर्वान् वालिसुतो रणे ।
क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ।। ६.५३.२७ ।।।।

53.28

तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान् ।
अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव ।चकार कदनं घोरं शक्रतुल्यपराक्रमः ।। ६.५३.२८ ।।।।

53.29

अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ।
विभिन्नशिरसः पेतुर्विकृत्ता इव पादपाः ।। ६.५३.२९ ।।िव ।।।

53.30

रथैरश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम् ।
रुधिरेण च सञ्छन्ना भूमिर्भयकरी तदा ।। ६.५३.३० ।।।।

53.31

हारकेयूरवस्त्रैश्च शस्त्रैश्च समलङ्कृता ।
भूमिर्भाति रणे तत्र शारदीव यथा निशा ।। ६.५३.३१ ।।।।

53.32

अङ्गदस्य च वेगेन तद्राक्षसबलं महत् ।
प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ।। ६.५३.३२ ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.