Utshovऐप डाउनलोड करें

सर्ग 54

54.1

बलस्य च निघातेन अङ्गदस्य जयेन च ।
राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ।। ६.५४.१ ।।।।

54.2

स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् ।
वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ।। ६.५४.२ ।।।।

54.3

राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।
नानाप्रहरणाः शूराः प्रायुद्ध्यन्त तदा रणे ।। ६.५४.३ ।।।।

54.4

वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः ।
आयुद्ध्यन्त शिलाहस्ताः समवेताः समन्ततः ।। ६.५४.४ ।।।।

54.5

तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।
राक्षसाः कपिमुख्येषु पातयाञ्चक्रिरे तदा ।। ६.५४.५ ।।।।

54.6

वानराश्चापि रक्षस्सु गिरीन् वृक्षान् महाशिलाः ।
प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ।। ६.५४.६ ।।।।

54.7

शूराणां युद्ध्यमानानां समरेष्वनिवर्तिनाम् ।
तद्राक्षसगणानां च सुयुद्धं समवर्तत ।। ६.५४.७ ।।।।

54.8

प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः ।
शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ।। ६.५४.८ ।।।।

54.9

हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।
कङ्कगृध्रवलैराढ्या गोमायुगणसङ्कुलाः ।। ६.५४.९ ।।।।

54.10

कबन्धानि समुत्पेतुर्भीरुणां भीषणानि वै ।
। ६.५४.१० ।।।।

54.11

भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ।
वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ।। ६.५४.११ ।।।।

54.12

ततो वानरसैन्येन हन्यमानं निशाचरम् ।
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ।। ६.५४.१२ ।।।।

54.13

राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः ।
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१३ ।।।।

54.14

प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ।
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ।। ६.५४.१४ ।।।।

54.15

बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ।
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ।। ६.५४.१५ ।।।।

54.16

त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तकन्धराः ।
अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ।। ६.५४.१६ ।।।।

54.17

ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा ।
क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।। ६.५४.१७ ।।।।

54.18

वज्रदंष्ट्रो ऽङ्गदश्चोभौ सङ्गतौ हरिराक्षसौ ।
चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ।। ६.५४.१८ ।।।।

54.19

ततः शरसहस्रेण वालिपुत्रं महाबलः ।
जघान मर्मदेशेषु मातङ्गमिव तोमरैः ।। ६.५४.१९ ।।।।

54.20

रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ।
चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ।। ६.५४.२० ।।।।

54.21

दृष्ट्वा ऽ ऽपतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः ।
चिच्छेद बहुधा सो ऽपि निकृत्तः पतितो भुवि ।। ६.५४.२१ ।।।।

54.22

तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ।
प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ।। ६.५४.२२ ।।।।

54.23

समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ।
गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ।। ६.५४.२३ ।।।।

54.24

सा ऽङ्गदेन गदा ऽ ऽक्षिप्ता गत्वा तु रणमूर्धनि ।
। ६.५४.२४ ।।।।

54.25

सचक्रकूबरं साश्वं प्रममाथ रथं तदा ।
। ६.५४.२५ ।।।।

54.26

ततो ऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ।
वज्रदंष्ट्रस्य शिरसि पातयामास सो ऽङ्गदः ।। ६.५४.२६ ।।।।

54.27

अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्च्छितः ।
मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ।। ६.५४.२७ ।।।।

54.28

स लब्धसञ्ज्ञो गदया वालिपुत्रमवस्थितम् ।
जघान परमक्रुद्धो वक्षोदेशे निशाचरः ।गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ।। ६.५४.२८ ।।।।

54.29

अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ।
रुधिरोद्गारिणो तौ तु प्रहरैर्जनितश्रमौ ।बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ।। ६.५४.२९ ।।।।

54.30

ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः ।
उत्पाट्य वृक्षं स्थितवान् बहुपुष्पफलाञ्चितम् ।। ६.५४.३० ।।।।

54.31

जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ।
किङ्किणीजालसञ्छन्नं चर्मणा च परिष्कृतम् ।। ६.५४.३१ ।।।।

54.32

विचित्रांश्चेरतुर्मार्गान् रुषितौ कपिराक्षसौ ।
जघ्नतुश्च तदा ऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ।। ६.५४.३२ ।।।।

54.33

व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ ।
युद्ध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ।। ६.५४.३३ ।।।।

54.34

निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ।
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ।। ६.५४.३४ ।।।।

54.35

निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ।
जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ।। ६.५४.३५ ।।।।

54.36

रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ।
सरोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ।। ६.५४.३६ ।।।।

54.37

वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ।
त्रस्ताः प्रत्यपतन् लङ्कां वध्यमानाः प्लवङ्गमै ।विषण्णवदना दीना ह्रिया किञ्चिदवाङ्मुखाः ।। ६.५४.३७ ।।।।

54.38

निहत्य तं वज्रधरप्रभावः स वालिसूनुः कपिसैन्यमध्ये ।
जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ।। ६.५४.३८ ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.