सर्ग 33
33.1
सीताम् तु मोहिताम् दृष्ट्वा सरमा नाम राक्षसी ।
आससाद आशु वैदेहीम् प्रियाम् प्रणयिनी सखी ।। ६-३३-१।।
33.2
मोहिताम् राक्षसेन्द्रेण सीताम् परमदुःखिताम् ।
आश्वासयामास तदा सरमा मृदुभाषिणी ।। ६-३३-२।।
33.3
सा हि तत्र कृता मित्रम् सीतया रक्ष्यमाणया ।
रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढ व्रता ।। ६-३३-३।।
33.4
सा ददर्श सखीम् सीताम् सरमा नष्ट चेतनाम् ।
उपावृत्य उत्थिताम् ध्वस्ताम् वडवाम् इव पांसुषु ।। ६-३३-४।।
33.5
ताम् समाश्वासयाम् आस सखी स्नेहेन सुव्रता ।
उक्ता यद् रावणेन त्वम् प्रत्युक्तम् च स्वयम् त्वया ।। ६-३३-५।।
33.6
उक्ता यद्रावणेन त्वम् प्रत्युक्तश्च स्वयम् त्वया ।
सखी स्नेहेन तद् भीरु मया सर्वम् प्रतिश्रुतम् ।। ६-३३-६
33.7
लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् ।
तव हेतोर् विशाल अक्षि न हि मे जीवितम् प्रियम् ।। ६-३३-७।।
33.8
स सम्भ्रान्तश च निष्क्रान्तो यत् कृते राक्षस अधिपः ।
तच् च मे विदितम् सर्वम् अभिनिष्क्रम्य मैथिलि ।। ६-३३-८।।
33.9
न शक्यम् सौप्तिकम् कर्तुम् रामस्य विदित आत्मनः ।
वधश्च पुरुष व्याघ्रे तस्मिन्न् एव उपपद्यते ।। ६-३३-९।।
33.10
न च एव वानरा हन्तुम् शक्याः पादप योधिनः ।
सुरा देव ऋषभेण इव रामेण हि सुरक्षिताः ।। ६-३३-१०।।
33.11
दीर्घ वृत्त भुजह् श्रीमान् महा उरस्कह् प्रतापवान् ।
धन्वी सम्हनन उपेतो धर्म आत्मा भुवि विश्रुतः ।। ६-३३-११
33.12
विक्रान्तो रक्षिता नित्यम् आत्मनश्च परस्य च ।
लक्ष्मणेन सह भ्रात्रा कुशली नय शास्त्रवित् ।। ६-३३-१२
33.13
हन्ता पर बल ओघानाम् अचिन्त्य बल पौरुषः ।
न हतो राघवः श्रीमान् सीते शत्रु निबर्हणः ।। १३।।
33.14
अयुक्त बुद्धि कृत्येन सर्व भूत विरोधिना ।
इयम् प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ।। ६-३३-१४।।
33.15
शोकस् ते विगतः सर्वः कल्याणम् त्वाम् उपस्थितम् ।
ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् प्रीति करम् शृणु ।। ६-३३-१५।।
33.16
उत्तीर्य सागरम् रामः सह वानर सेनया ।
सम्निविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् ।। ६-३३-१६।।
33.17
दृष्टो मे परिपूर्ण अर्थः काकुत्स्थः सह लक्ष्मणः ।
सहितैः सागर अन्तस्थैर् बलैस् तिष्ठति रक्षितः ।। ६-३३-१७।।
33.18
अनेन प्रेषिता ये च राक्षसा लघु विक्रमः ।
राघवस् तीर्णैत्य् एवम् प्रवृत्तिस् तैर् इह आहृता ।। ६-३३-१८।।
33.19
स ताम् श्रुत्वा विशाल अक्षि प्रवृत्तिम् राक्षस अधिपः ।
एष मन्त्रयते सर्वैः सचिवैः सह रावणः ।। ६-३३-१९।।
33.20
इति ब्रुवाणा सरमा राक्षसी सीतया सह ।
सर्व उद्योगेन सैन्यानाम् शब्दम् शुश्राव भैरवम् ।। ६-३३-२०।।
33.21
दण्ड निर्घात वादिन्याः श्रुत्वा भेर्या महा स्वनम् ।
उवाच सरमा सीताम् इदम् मधुर भाषिणी ।। ६-३३-२१।।
33.22
सम्नाह जननी ह्य् एषा भैरवा भीरु भेरिका ।
भेरी नादम् च गम्भीरम् शृणु तोयद निस्वनम् ।। ६-३३-२२।।
33.23
कल्प्यन्ते मत्त मातम्गा युज्यन्ते रथ वाजिनः ।
तत्र तत्र च सम्नद्धाः सम्पतन्ति पदातयः ।। ६-३३-२३।।
33.24
तत्र तत्र च सन्नद्धाः सम्पतन्ति सहस्रशः ।
आपूर्यन्ते राज मार्गाः सैन्यैर् अद्भुत दर्शनैः ।। ६-३३-२४।
33.25
वेगवद्भिर् नदद्भिश्च तोय ओघैर् इव सागरः ।
शास्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा ।। ६-३३-२५
33.26
रथ वाजि गजानाम् च भूषितानाम् च रक्षसाम् ।
सम्भ्रमो रक्षसामेष हृषितानाम् तरस्विनाम् ।। ६-३३-२६
33.27
प्रभाम् विसृजताम् पश्य नाना वर्णाम् समुत्थिताम् ।
वनम् निर्दहतो धर्मे यथा रूपम् विभावसोः ।। ६-३३-२७।।
33.28
घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निस्वनम् ।
हयानाम् हेषमाणानाम् शृणु तूर्य ध्वनिम् यथा ।। ६-३३-२८
33.29
उद्यत आयुध हस्तानाम् राक्षस इन्द्र अनुयायिनाम् ।
सम्भ्रमो रक्षसाम् एष तुमुलो लोम हर्षणः ।। ६-३३-२९।।
33.30
श्रीस् त्वाम् भजति शोकघ्नी रक्षसाम् भयम् आगतम् ।
रामात् कमल पत्र अक्षि दैत्यानाम् इव वासवात् ।। ६-३३-३०
33.31
अवजित्य जित क्रोधस् तम् अचिन्त्य पराक्रमः ।
रावणम् समरे हत्वा भर्ता त्वा अधिगमिष्यति ।। ६-३३-३१।।
33.32
विक्रमिष्यति रक्षह्सु भर्ता ते सह लक्ष्मणः ।
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।। ६-३३-३२।।
33.33
आगतस्य हि रामस्य क्षिप्रम् अन्क गताम् सतीम् ।
अहम् द्रक्ष्यामि सिद्ध अर्थाम् त्वाम् शत्रौ विनिपातिते ।। ६-३३-३३।।
33.34
अश्रूण्य् आनन्दजानि त्वम् वर्तयिष्यसि शोभने ।
समागम्य परिष्वक्ता तस्य उरसि महा उरसः ।। ६-३३-३४।।
33.35
अचिरान् मोक्ष्यते सीते देवि ते जघनम् गताम् ।
धृताम् एताम् बहून् मासान् वेणीम् रामो महा बलः ।। ६-३३-३५।।
33.36
तस्य दृष्ट्वा मुखम् देवि पूर्ण चन्द्रम् इव उदितम् ।
मोक्ष्यसे शोकजम् वारि निर्मोकम् इव पन्नगी ।। ६-३३-३६।।
33.37
रावणम् समरे हत्वा नचिराद् एव मैथिलि ।
त्वया समग्रम् प्रियया सुख अर्हो लप्स्यते सुखम् ।। ६-३३-३७।।
33.38
समागता त्वम् रामेण मोदिष्यसि महात्मना ।
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ।। ६-३३-३८।।
33.39
गिरि वरम् अभितो अनुवर्तमानो ।
हय इव मण्डलम् आशु यः करोति ।तम् इह शरणम् अभ्युपेहि देविदिवस करम् प्रभवो ह्ययम् प्रजानाम् ६-३३-३९