सर्ग 32
32.1
सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् ।
।सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता ।। ६-३२-१
32.2
नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् ।
केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् ।। ६-३२-२
32.3
एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता ।
विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा ।। ६-३२-३।।
32.4
सकामा भव कैकेयि हतो अयम् कुल नन्दनः ।
कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया ।। ६-३२-४।।
32.5
आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् ।
यन्मया चीर वसनस् तया प्रस्थापितो वनम् ।। ६-३२-५।।
32.6
एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी ।
जगाम जगतीम् बाला चिन्ना तु कदली यथा ।। ६-३२-६।।
32.7
सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् ।
तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा ।। ६-३२-७।।
32.8
हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता ।
इमाम् ते पश्चिम अवस्थाम् गता अस्मि विधवा कृता ।। ६-३२-८।।
32.9
प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते ।
सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः ।। ६-३२-९।।
32.10
दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे ।
यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः ।। ६-३२-१०।।
32.11
सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव ।
वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता ।। ६-३२-११।।
32.12
उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम ।
अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव ।। ६-३२-१२।।
32.13
अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव ।
पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् ।। ६-३२-१३।।
32.14
अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् ।
व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने ।। ६-३२-१४।।
32.15
तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया ।
काल रात्र्या मया आच्चिद्य हृतः कमल लोचन ।। ६-३२-१५।।
32.16
उपशेषे महा बाहो माम् विहाय तपस्विनीम् ।
प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ ।। ६-३२-१६।।
32.17
अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव ।
इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् ।। ६-३२-१७।।
32.18
पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ ।
पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः ।। ६-३२-१८।।
32.19
दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् ।
पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे ।। ६-३२-१९।।
32.20
किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे ।
बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् ।। ६-३२-२०।।
32.21
संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया ।
स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिताम् ।। ६-३२-२१।।
32.22
कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर ।
अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् ।। ६-३२-२२।।
32.23
कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु ।
क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते ।। ६-३२-२३।।
32.24
अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः ।
अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे ।। ६-३२-२४।।
32.25
प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् ।
परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा ।। ६-३२-२५।।
32.26
स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते ।
तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् ।। ६-३२-२६।।
32.27
सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् ।
हृदयेन विदीर्णेन न भविष्यति राघव ।। ६-३२-२७।।
32.28
मम हेतोरनार्याया अवघः पार्थिवात्मजः ।
रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः ।। ६-३२-२८।।
32.29
अहम् दाशरथेनोढा मोहात्स्वकुपांसनी ।
आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ।। ६-३२-२९।।
32.30
मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् ।
याहमद्येह शोचामि भार्या सर्वातिथेरपि ।। ६-३२-३०।।
32.31
साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः ।
समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् ।। ६-३२-३१।।
32.32
शिरसा मे शिरसः च अस्य कायम् कायेन योजय ।
रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः ।। ६-३२-३२।।
32.33
इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा ।
भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा ।। ६-३२-३३।।
32.34
एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः ।
अभिचक्राम भर्तारम् अनीकस्थः क्ऱ्त अन्जलिः ।। ६-३२-३४।।
32.35
विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च ।
न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् ।। ६-३२-३५।।
32.36
अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः ।
तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो ।। ६-३२-३६।।
32.37
मानमस्ति महारा ज राजभावात् क्षमान्वित ।
किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु ।। ६-३२-३७।।
32.38
एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् ।
अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ ।। ६-३२-३८।।
32.39
स तु सर्वम् समर्थ्य एव मन्त्रिभिः क्ऱ्त्यम् आत्मनः ।
सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् ।। ६-३२-३९।।
32.40
अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् ।
जगाम रावणस्य एव निर्याण समनन्तरम् ।। ६-३२-४०।।
32.41
राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः ।
समर्थयाम् आस तदा राम कार्य विनिश्चयम् ।। ६-३२-४१।।
32.42
अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः ।
अब्रवीत् काल सद्ऱ्शो रावणो राक्षस अधिपः ।। ६-३२-४२।।
32.43
शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे ।
समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् ।। ६-३२-४३।।
32.44
ततस् तथा इति प्रतिगृह्य तद् वचो ।
स्तदैव दूताः सहसा महाद्बलम् ।समानयंसः चैव समागतम् च ते ।न्यवेदयन् भर्तरि युद्ध कान्क्षिणि ।। ६-३२-४४