Utshovऐप डाउनलोड करें

सर्ग 5

5.1

ऋश्यमूकात् तु हनुमान् गत्वा तम् मलयम् गिरिम् ।
आचचक्षे तदा वीरौ कपि राजाय राघवौ ॥४-५-१॥

5.2

अयम् रामो महाप्राज्ञ संप्राप्तो दृढ विक्रमः ।
लक्ष्मणेन सह भ्रात्रा रामोऽयम् सत्य विक्रमः ॥४-५-२॥

5.3

इक्ष्वाकूणाम् कुले जातो रामो दशरथात्मजः ।
धर्मे निगदितः च एव पितुर् निर्देश कारकः ॥४-५-३॥

5.4

राजसूय अश्वमेधैः च वह्निः येन अभितर्पितः ।
दक्षिणाः च तथा उत्सृष्टा गावः शत सहस्रशः ॥४-५-४॥

5.5

तपसा सत्य वाक्येन वसुधा येन पालिता ।
स्त्री हेतोः तस्य पुत्रोऽयम् रामः अरणयम् समागतः ॥४-५-५॥

5.6

तस्य अस्य वसतो अरण्ये नियतस्य महात्मनः ।
रावणेन हृता भार्या स त्वाम् शरणम् आगतः ॥४-५-६॥

5.7

भवता सख्य कामौ तौ भ्रातरौ राम लक्ष्मणौ ।
प्रगृह्य च अर्चयस्व एतौ पूजनीयतमौ उभौ ॥४-५-७॥

5.8

श्रुत्वा हनुमतो वाक्यम् सुग्रीवो वानर अधिपः ।
दर्शनीयतमो भूत्वा प्रीत्या उवाच राघवम् ॥४-५-८॥

5.9

भवान् धर्म विनीतः च सुतपाः सर्व वत्सलः ।
आख्याता वायुपुत्रेण तत्त्वतो मे भवद् गुणाः ॥४-५-९॥

5.10

तन् मम एव एष सत्कारो लाभः च एव उत्तमः प्रभो ।
यत् त्वम् इच्छसि सौहार्दम् वानरेण मया सह ॥४-५-१०॥

5.11

रोचते यदि मे सख्यम् बाहुः एष प्रसारितः ।
गृह्यताम् पाणिना पाणिः मर्यादा बध्यताम् ध्रुवा ॥४-५-११॥

5.12

एतत् तु वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् ।
संप्रहृष्ट मना हस्तम् पीडयामास पाणिना ॥४-५-१२॥

5.13

हृष्टः सौहृदम् आलम्ब्य पर्यष्वजत पीडितम् ।
ततो हनूमान् संत्यज्य भिक्षु रूपम् अरिन्दमः ॥४-५-१३॥

5.14

काष्ठयोः स्वेन रूपेण जनयामास पावकम् ।
दीप्यमानम् ततो वह्निम् पुष्पैः अभ्यर्च्य सत्कृतम् ॥४-५-१४॥

5.15

तयोर् मध्ये तु सुप्रीतो निदधौ सुसमाहितः ।
ततो अग्निम् दीप्यमानम् तौ चक्रतुः च प्रदक्षिणम् ॥४-५-१५॥

5.16

सुग्रीवो राघवः च एव वयस्यत्वम् उपागतौ ।
ततः सुप्रीत मनसौ तौ उभौ हरि राघवौ ॥४-५-१६॥

5.17

अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् अभिजग्मतुः ।
त्वम् वयस्योऽसि हृद्यः मे हि एकम् दुःखम् सुखम् च नौ ॥४-५-१७॥

5.18

सुग्रीवो राघवम् वाक्यम् इति उवाच प्रहृष्टवत् ।
ततः सुपर्ण बहुलाम् भंक्त्वा शाखाम् सुपुष्पिताम् ॥४-५-१८॥

5.19

सालस्य आस्तीर्य सुग्रीवः निषसाद स राघवः ।
लक्ष्मनाय अथ संहृष्टो हनुमान् मारुतात्मजः ॥४-५-१९॥

5.20

शखाम् चन्दन वृक्षस्य ददौ परम पुष्पिताम् ।
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णम् मधुरया गिरा ॥४-५-२०॥

5.21

प्रति उवाच तदा रामम् हर्ष व्याकुल लोचनः ।
अहम् विनिकृतो राम चरमि इह भय आर्दितः ॥४-५-२१॥

5.22

हृत भार्यो वने त्रस्तो दुर्गम् एतत् उपाश्रितः ।
सोऽहम् त्रस्तो वने भीतो वसामि उद् भ्रान्त चेतनः ॥४-५-२२॥

5.23

वालिना निकृतो भ्रात्रा कृत वैरः च राघव ।
वालिनो मे महाभाग भय आर्तस्य अभयम् कुरु ॥४-५-२३॥

5.24

कर्तुम् अर्हसि काकुत्स्थः भयम् मे न भवेद् यथा ।
एवम् उक्तः तु तेजस्वी धर्मज्ञो धर्म वत्सलः ॥४-५-२४॥

5.25

प्रति अभाषत काकुत्स्थः सुग्रीवम् प्रहसन् इव ।
उपकार फलम् मित्रम् विदितम् मे महाकपे ॥४-५-२५॥

5.26

वालिनम् तम् वधिष्यामि तव भार्य अपहारिणम् ।
अमोघोः सूर्य संकाशाः मम इमे निशिताः शराः ॥४-५-२६॥

5.27

तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ।
कन्क पत्र प्रतिच्छन्ना महेन्द्र अशनि संनिभाः ॥४-५-२७॥

5.28

तीक्ष्णाग्रा ऋजुपर्वाणः स रोषा भुजगा इव ।
तम् अद्य वालिनम् पश्य तीक्ष्णैः आशी विष उपमैः ॥४-५-२८॥

5.29

शरैः विनिहितम् भूमौ प्रकीर्णम् इव पर्वतम् ।
स तु तद् वचनम् श्रुत्वा राघवस्य आत्मनोहितम् ।सुग्रीवः परम प्रीतः परमम् वाक्यम् अब्रवीत् ॥४-५-२९॥

5.30

तव प्रसादेन नृसिंह वीरप्रियाम् च राज्यम् च समाप्नुयाम् अहम् ।
तथा कुरु त्वम् नर देव वैरिणम्यथा न हिंस्यत् स पुनर् मम अग्रजम् ॥४-५-३०॥

5.31

सीत कपीन्द्र क्षणदा चराणाम्राजीव हेम ज्वलनोपमानानि ।
सुग्रीव राम प्रणय पसङ्गेवामानि नेत्राणि समम् स्फुरन्ति ॥४-५-३१॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.