Utshovऐप डाउनलोड करें

सर्ग 21

21.1

तथा तु विलपन्तीम् ताम् कौसल्याम् राम मातरम् ।
उवाच लक्ष्मणो दीनः तत् काल सदृशम् वचः ॥२-२१-१॥

21.2

न रोचते मम अपि एतत् आर्ये यद् राघवो वनम् ।
त्यक्त्वा राज्य श्रियम् गच्चेत् स्त्रिया वाक्य वशम् गतः ॥२-२१-२॥

21.3

विपरीतः च वृद्धः च विषयैः च प्रधर्षितः ।
नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः ॥२-२१-३॥

21.4

न अस्य अपराधम् पश्यामि न अपि दोषम् तथा विधम् ।
येन निर्वास्यते राष्ट्रात् वन वासाय राघवः ॥२-२१-४॥

21.5

न तम् पश्याम्य् अहम् लोके परोक्षम् अपि यो नरः ।
स्वमित्रोऽपि निरस्तोऽपि योऽस्यदोषमुदाहरेत् ॥२-२१-५॥

21.6

देव कल्पम् ऋजुम् दान्तम् रिपूणाम् अपि वत्सलम् ।
अवेक्षमाणः को धर्मम् त्यजेत् पुत्रम् अकारणात् ॥२-२१-६॥

21.7

तत् इदम् वचनम् राज्ञः पुनर् बाल्यम् उपेयुषः ।
पुत्रः को हृदये कुर्यात् राज व्Rत्तम् अनुस्मरन् ॥२-२१-७॥

21.8

यावद् एव न जानाति कश्चित् अर्थम् इमम् नरः ।
तावद् एव मया साधम् आत्मस्थम् कुरु शासनम् ॥२-२१-८॥

21.9

मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।
कः समर्थो अधिकम् कर्तुम् कृत अन्तस्य इव तिष्ठतः ॥२-२१-९॥

21.10

निर्मनुष्याम् इमाम् सर्वाम् अयोध्याम् मनुज ऋषभ ।
करिष्यामि शरैअः तीक्ष्णैः यदि स्थास्यति विप्रिये ॥२-२१-१०॥

21.11

भरतस्य अथ पक्ष्यो वा यो वा अस्य हितम् इच्चति ।
सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते ॥२-२१-११॥

21.12

प्रोत्साहितोऽयम् कैकेय्या स दुष्टो यदिः पिता ।
अमित्रभूतो निस्सङ्गम् वध्यताम् बध्यतामपि ॥२-२१-१२॥

21.13

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्फथम् प्रतिपन्नस्य कार्यम् भवति शासन्म् ॥२-२१-१३॥

21.14

बलमेष किमाश्रित्य हेतुम् वा पुरुषर्षभ ।
दातुमिच्छति कैकेय्य राज्यम् स्थितमिदम् तव ॥२-२१-१४॥

21.15

त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् ।
कस्य शक्तिः श्रियम् दातुम् भरताय अरि शासन ॥२-२१-१५॥

21.16

अनुरक्तः अस्मि भावेन भ्रातरम् देवि तत्त्वतः ।
सत्येन धनुषा चैव दत्तेन इष्टेन ते शपे ॥२-२१-१६॥

21.17

दीप्तम् अग्निम् अरण्यम् वा यदि रामः प्रवेक्ष्यते ।
प्रविष्टम् तत्र माम् देवि त्वम् पूर्वम् अवधारय ॥२-२१-१७॥

21.18

हरामि वीर्यात् दुह्खम् ते तमः सूर्यैव उदितः ।
देवी पश्यतु मे वीर्यम् राघवः चैव पश्यतु ॥२-२१-१८॥

21.19

एतत् तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः ।
उवाच रामम् कौसल्या रुदन्ती शोक लालसा ॥२-२१-१९॥

21.20

भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतम् त्वया ।
यद् अत्र अनन्तरम् तत् त्वम् कुरुष्व यदि रोचते ॥२-२१-२०॥

21.21

न च अधर्म्यम् वचः श्रुत्वा सपत्न्या मम भाषितम् ।
विहाय शोक सम्तप्ताम् गन्तुम् अर्हसि माम् इतः ॥२-२१-२१॥

21.22

धर्मज्ञ यदि धर्मिष्ठो धर्मम् चरितुम् इच्चसि ।
शुश्रूष माम् इहस्थः त्वम् चर धर्मम् अनुत्तमम् ॥२-२१-२२॥

21.23

शुश्रूषुर् जननीम् पुत्र स्व गृहे नियतः वसन् ।
परेण तपसा युक्तः काश्यपः त्रिदिवम् गतः ॥२-२१-२३॥

21.24

यथा एव राजा पूज्यः ते गौरवेण तथा हि अहम् ।
त्वाम् न अहम् अनुजानामि न गन्तव्यम् इतः वनम् ॥२-२१-२४॥

21.25

त्वद् वियोगान् न मे कार्यम् जीवितेन सुखेन वा ।
त्वया सह मम श्रेयः तृणानाम् अपि भक्षणम् ॥२-२१-२५॥

21.26

यदि त्वम् यास्यसि वनम् त्यक्त्वा माम् शोक लालसाम् ।
अहम् प्रायम् इह आसिष्ये न हि शक्ष्यामि जीवितुम् ॥२-२१-२६॥

21.27

ततः स्त्वम् प्राप्स्यसे पुत्र निरयम् लोक विश्रुतम् ।
ब्रह्म हत्याम् इव अधर्मात् समुद्रः सरिताम् पतिः ॥२-२१-२७॥

21.28

विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततः ।
उवाच रामः धर्म अत्मा वचनम् धर्म सम्हितम् ॥२-२१-२८॥

21.29

न अस्ति शक्तिः पितुर् वाक्यम् समतिक्रमितुम् मम ।
प्रसादये त्वाम् शिरसा गन्तुम् इच्चाम्य् अहम् वनम् ॥२-२१-२९॥

21.30

ऋषिणा च पितुर् वाक्यम् कुर्वता व्रत चारिणा ।
गौर् हता जानता धर्मम् कण्डुना अपि विपश्चिता ॥२-२१-३०॥

21.31

अस्माकम् च कुले पूर्वम् सगरस्य आज्ञया पितुः ।
खनद्भिः सागरैः भूतिम् अवाप्तः सुमहान् वधः ॥२-२१-३१॥

21.32

जामदग्न्येन रामेण रेणुका जननी स्वयम् ।
कृत्ता परशुना अरण्ये पितुर् वचन कारिणा ॥२-२१-३२॥

21.33

एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् ।
पितुर्वचनमक्लीबम् करिष्यामि पितुर्शितम् ॥२-२१-३३॥

21.34

न खल्व् एतन् मया एकेन क्रियते पितृ शासनम् ।
एतैरपि कृतम् देवि ये मया तव कीर्तिताः ॥२-२१-३४॥

21.35

नाहम् धर्ममपूर्वम् ते प्रतिकूलम् प्रवर्तये ।
पूर्वैः अयम् अभिप्रेतः गतः मार्गो अनुगम्यते ॥२-२१-३५॥

21.36

तत् एतत् तु मया कार्यम् क्रियते भुवि न अन्यथा ।
पितुर् हि वचनम् कुर्वन् न कश्चिन् नाम हीयते ॥२-२१-३६॥

21.37

ताम् एवम् उक्त्वा जननीम् लक्ष्मणम् पुनर् अब्रवीत् ।
तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् ॥२-२१-३७॥

21.38

तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।
विक्रमम् चैव सत्यम् च तेजश्च सुदुरासदम् ॥२-२१-३८॥

21.39

मम मातुर्महद्दुःखमतुलम् शुभलक्षम्ण ।
अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च ॥२-२१-३९॥

21.40

धर्मः हि परमः लोके धर्मे सत्यम् प्रतिष्ठितम् ।
धर्म सम्श्रितम् एतच् च पितुर् वचनम् उत्तमम् ॥२-२१-४०॥

21.41

सम्श्रुत्य च पितुर् वाक्यम् मातुर् वा ब्राह्मणस्य वा ।
न कर्तव्यम् वृथा वीर धर्मम् आश्रित्य तिष्ठता ॥२-२१-४१॥

21.42

सो अहम् न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् ।
पितुर् हि वचनात् वीर कैकेय्या अहम् प्रचोदितः ॥२-२१-४२॥

21.43

तत् एनाम् विसृज अनार्याम् क्षत्र धर्म आश्रिताम् मतिम् ।
धर्मम् आश्रय मा तैक्ष्ण्यम् मद् बुद्धिर् अनुगम्यताम् ॥२-२१-४३॥

21.44

तम् एवम् उक्त्वा सौहार्दात् भ्रातरम् लक्ष्मण अग्रजः ।
उवाच भूयः कौसल्याम् प्रान्जलिः शिरसा आनतः ॥२-२१-४४॥

21.45

अनुमन्यस्व माम् देवि गमिष्यन्तम् इतः वनम् ।
शापिता असि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥२-२१-४५॥

21.46

तीर्ण प्रतिज्ञः च वनात् पुनर् एष्याम्य् अहम् पुरीम् ।
ययातिरिव राजर्षिः पुरा हित्वा पुनर्धिवम् ॥२-२१-४६॥

21.47

शोकस्सम्धार्यताम् मातर्हृदये साधु मा शुचः ।
वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥२-२१-४७॥

21.48

त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।
पितुर्नियोगे स्थातव्यमेष धर्मः सनाअनः ॥२-२१-४८॥

21.49

अम्ब सम्हृत्य सम्भारान् दुःखम् हृदि निगृह्य च ।
वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम् ॥२-२१-४९॥

21.50

एतद्वच स्तस्य निशम्य माता ।
सुधर्म्यमव्यग्रमविक्लबम् च ।मृतेव सम्ज्ञाम् प्रतिलभ्य देवी ।समीक्ष्य रामम् पुनरित्युवाच ॥२-२१-५०॥

21.51

यथैव ते पुत्र पिता तथाहम् ।
गुरुः स्वधर्मेण सुहृत्तया च ।न त्वानुजानामि न मांविहाय ।सुदुःखितामर्हसि गन्तुमेवम् ॥२-२१-५१॥

21.52

किम् जीवितेनेह विना त्वया मे ।
लोकेन वा किम् स्वधयाऽमृतेन ।श्रेयो मुहूर्तम् तव सन्निधानम् ।ममेह कृत्स्नादपि जीवलोकात् ॥२-२१-५२॥

21.53

नरैरिवोल्काभिरपोह्यमानो ।
महागजोऽध्वानमनुप्रविष्टः ।भूयः प्रजज्वाल विलापमेवम् ।निशम्य रामः करुणम् जनन्या ॥२-२१-५३॥

21.54

स मातरम् चैव विसम्ज्ञकल्पा ।
मार्तम् च सौमित्रि मभिप्रतप्तम् ।धर्मे स्थितो धर्म्यमुवाच वाक्यम् ।यथा स एवार्हति तत्र वक्तुम् ॥२-२१-५४॥

21.55

अहम् हि ते लक्ष्मण नित्यमेव ।
जानामि भक्तिम् च पराक्रमम् च ।मम त्वभिप्राय मसन्निरीक्ष्य ।मात्रा सहाभ्यर्दसि मा सुदुःखम् ॥२-२१-५५॥

21.56

धर्मार्थकामाः खलु तात लोके ।
समीक्षिता धर्मफलोदयेषु ।ते तत्र सर्वे स्युरसम्शयम् मे ।भार्येव वश्याभिमता सुपुत्रा ॥२-२१-५६॥

21.57

यस्मिम्स्तु सर्वे स्युरसन्निविष्टा ।
धर्मो यतः स्यात् तदुपक्रमेत ।द्वेष्यो भवत्यर्थपरो हि लोके ।कामात्मता खल्वपि न प्रशस्ता ॥२-२१-५७॥

21.58

गुरुश्च राजा च पिता च वृद्धः ।
क्रोधात्प्रहर्ष द्यदि वापि कामात् ।यद्व्यादिशेत् कार्यमवेक्ष्य धर्मम् ।कस्तन्न कुर्यादनृदनृशम्सवृत्तिः ॥२-२१-५८॥

21.59

सवै न शक्नोमि पितुः प्रतिज्ञा ।
मिमामकर्तुम् सकलम् यथावत् ।स ह्यवयोस्तत गुरुर्नियोगे ।देवाश्च भर्ता स गतिस्स धर्मः ॥२-२१-५९॥

21.60

तस्मिन् पुनर्जीवति धर्मराजे ।
विशेषतः स्वे पथि वर्तमाने ।देवी मया सार्थमितोऽपगच्छेत् ।कथम् स्विदन्या विधवेव नारी ॥२-२१-६०॥

21.61

सा मानुमन्यस्व वनम् व्रजन्तम् ।
कुरुष्व नः स्वस्त्ययनानि देवि ।यथा समाप्ते पुनराव्रजेयम् ।यथा हि स्त्येन पुनर्ययातिः ॥२-२१-६१॥

21.62

यशो ह्यहम् केवलराज्यकारणात् ।
न पृष्ठतः कर्तुमलम् महोदयम् ।अदीर्घकाले न तु देवि जीविते ।वृणेऽवरामद्य महीमधर्मतः ॥२-२१-६२॥

21.63

प्रसादयन् नर वृषभः स मातरम् ।
पराक्रमाज्जिगमिषुरेव दोम्डकान् ।अथ अनुजम् भ्Rशम् अनुशास्य दर्शनम् ।चकार ताम् ह्Rदि जननीम् प्रदक्षिणम् ॥२-२१-६३॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.