Utshovऐप डाउनलोड करें

सर्ग 105

105.1

ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः ।
शोचतामेव रजनी दुःखेन व्यत्यवर्त्तत ॥ २.१०५.१॥

105.2

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २.१०५.२॥

105.3

तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।
भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ २.१०५.३॥

105.4

सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ २.१०५.४॥

105.5

महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे ।
दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ २.१०५.५॥

105.6

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ित्रणः ।
अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ २.१०५.६॥

105.7

सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।
राम तेन तु दुर्जीवं यः परानुपजीवति ॥ २.१०५.७॥

105.8

यथा तु रोपितो वृक्षः पुरुषेण विवर्द्धितः ।
ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥ २.१०५.८॥

105.9

स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।
स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः ॥ २.१०५.९॥

105.10

एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि ।
यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥ २.१०५.१०॥

105.11

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः ।
प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ २.१०५.११॥

105.12

तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः ।
अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥ २.१०५.१२॥

105.13

तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः ।
भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥ २.१०५.१३॥

105.14

तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।
रामः कृतात्मा भरतं समाश्वासय दात्मवान् ॥ २.१०५.१४॥

105.15

नात्मनः कामकारो ऽस्ति पुरुषो ऽयमनीश्वरः ।
इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ २.१०५.१५॥

105.16

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ २.१०५.१६॥

105.17

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ २.१०५.१७॥

105.18

यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति ।
तथैव सीदन्ति नरा जरामृत्युवशङ्गताः ॥ २.१०५.१८॥

105.19

अत्येति रजनी या तु सा न प्रतिनिवर्त्तते ।
यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ २.१०५.१९॥

105.20

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ २.१०५.२०॥

105.21

आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २.१०५.२१॥

105.22

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।
गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ २.१०५.२२॥

105.23

गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः ।
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ २.१०५.२३॥

105.24

नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २.१०५.२४॥

105.25

हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् ।
ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षयः ॥ २.१०५.२५॥

105.26

यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ २.१०५.२६॥

105.27

एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ २.१०५.२७॥

105.28

नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते ।
तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥ २.१०५.२८॥

105.29

यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः ।
अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २.१०५.२९॥

105.30

एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ।
तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ २.१०५.३०॥

105.31

वयसः पतमानस्य स्रोतसो वा ऽनिवर्तिनः ।
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥ २.१०५.३१॥

105.32

धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः ।
धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ॥ २.१०५.३२॥

105.33

भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।
अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः ॥ २.१०५.३३॥

105.34

कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः ।
स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ २.१०५.३४॥

105.35

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।
उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ २.१०५.३५॥

105.36

आयुरुत्तममासाद्य भोगानपि च राघवः ।
स न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥ २.१०५.३६॥

105.37

स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ २.१०५.३७॥

105.38

तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति ।
तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः ॥ २.१०५.३८॥

105.39

एते बहुविधाः शोका विलापरुदिते तथा ।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ २.१०५.३९॥

105.40

स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् ।
तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ॥ २.१०५.४०॥

105.41

यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा ।
तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ २.१०५.४१॥

105.42

न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।
तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥ २.१०५.४२॥

105.43

तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः ।
कर्मणा पालयिष्यामि वनवासेन राघव ॥ २.१०५.४३॥

105.44

धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना ।
भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ २.१०५.४४॥

105.45

आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ ।
निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥ २.१०५.४५॥

105.46

इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ।
यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ २.१०५.४६ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.