सर्ग 104
104.1
तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् ।
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ २.१०४.१॥
104.2
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।
यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २.१०४.२॥
104.3
किं निमित्तमिमं देशं कृष्णाजिनजटाधरः ।
हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ २.१०४.३॥
104.4
इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना ।
प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥ २.१०४.४॥
104.5
आर्य्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् ।
गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ॥ २.१०४.५॥
104.6
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप ।
चकार सुमहत्पापमिदमात्मयशोहरम् ॥ २.१०४.६॥
104.7
सा राज्यफलमप्राप्य विधवा शोककर्शिता ।
पतिष्यति महाघोरे निरये जननी मम ॥ २.१०४.७॥
104.8
तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि ।
अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥ २.१०४.८॥
104.9
इमाः प्रकृतयः सर्वा विधवा मातरश्च याः ।
त्वत्सकाशमनुप्राप्ताः प्रसादं कर्त्तुमर्हसि ॥ २.१०४.९॥
104.10
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।
राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥ २.१०४.१०॥
104.11
भवत्वविधवा भूमिः समग्रा पतिना त्वया ।
शशिना विमलेनेव शारदी रजनी यथा ॥ २.१०४.११॥
104.12
एभिश्च सचिवैः सार्द्धं शिरसा याचितो मया ।
भ्रातुः शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥ २.१०४.१२॥
104.13
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् ।
पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ २.१०४.१३॥
104.14
एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः ।
रामस्य शिरसा पादौ जग्राह विधिवत्पुनः ॥ २.१०४.१४॥
104.15
तं मत्तमिव मातङ्गं निःश्वसन्तं पुनःपुनः ।
भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ २.१०४.१५॥
104.16
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः ।
राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ॥ २.१०४.१६॥
104.17
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन ।
न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ २.१०४.१७॥
104.18
कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ ।
उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ २.१०४.१८॥
104.19
वयमस्य यथा लोके सङ्ख्याताः सौम्य साधुभिः ।
भार्य्याः पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ २.१०४.१९॥
104.20
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ।
राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥ २.१०४.२०॥
104.21
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ।
तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २.१०४.२१॥
104.22
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।
मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ॥ २.१०४.२२॥
104.23
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।
वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २.१०४.२३॥
104.24
एवं कृत्वा महाराजो विभागं लोकसन्निधौ ।
व्यादिश्य च महातेजा दिवं दशरथो गतः ॥ २.१०४.२४॥
104.25
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।
पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २.१०४.२५॥
104.26
चतुर्दशसमाः सौम्य दण्डकारण्यमाश्रितः ।
उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २.१०४.२६॥
104.27
यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः ।
तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ २.१०४.२७ ॥