सर्ग 103
103.1
वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च ।
अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ २.१०३.१॥
103.2
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।
ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २.१०३.२॥
103.3
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।
सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥ २.१०३.३॥
103.4
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।
वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृताः ॥ २.१०३.४॥
103.5
इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः ।
स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ २.१०३.५॥
103.6
जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः ।
भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणैः ॥ २.१०३.६॥
103.7
अद्यायमपि ते पुत्रः क्लेशानामतथोचितः ।
नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ २.१०३.७॥
103.8
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।
पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ २.१०३.८॥
103.9
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ २.१०३.९॥
103.10
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः ।
राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ २.१०३.१०॥
103.11
तस्य देवसमानस्य पार्थिवस्य महात्मनः ।
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ २.१०३.११॥
103.12
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः ।
कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥ २.१०३.१२॥
103.13
अतो दुःखतरं लोके न किञ्चित् प्रतिभाति मा ।
यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ २.१०३.१३॥
103.14
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।
कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ २.१०३.१४॥
103.15
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ २.१०३.१५॥
103.16
एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।
ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ २.१०३.१६॥
103.17
सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः ।
आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ २.१०३.१७॥
103.18
तासां रामः समुत्थाय जग्राह चरणान् शुभान् ।
मातऽणां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः ॥ २.१०३.१८॥
103.19
ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः ।
प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ २.१०३.१९॥
103.20
सौमित्रिरपि ताः सर्वाः मातऽः सम्प्रेक्ष्य दुःखितः ।
अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ २.१०३.२०॥
103.21
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः ।
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २.१०३.२१॥
103.22
सीतापि चरणांस्तासामुपसंगृह्य दुःखिता ।
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ २.१०३.२२॥
103.23
तां परिष्वज्य दुःखार्त्तां माता दुहितरं यथा ।
वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २.१०३.२३॥
103.24
विदेहराजस्य सुता स्नुषा दशरथस्य च ।
रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥ २.१०३.२४॥
103.25
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ २.१०३.२५॥
103.26
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥ २.१०३.२६॥
103.27
ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रजः ।
पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ २.१०३.२७॥
103.28
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः ।
प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥ २.१०३.२८॥
103.29
ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः ।
जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २.१०३.२९॥
103.30
उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।
श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ २.१०३.३०॥
103.31
किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २.१०३.३१॥
103.32
स राघवः सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिकः ।
वृताः सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयो ऽग्नयः ॥ २.१०३.३२ ॥