सर्ग 106
106.1
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।
ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ।उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥ २.१०६.१॥
106.2
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।
न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥ २.१०६.२॥
106.3
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ २.१०६.३॥
106.4
यथा मृतस्तथा जीवन् यथा ऽसति तथा सति ।
यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ॥ २.१०६.४॥
106.5
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ।
स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ २.१०६.५॥
106.6
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गरः ।
सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ २.१०६.६॥
106.7
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।
अविषह्यतमं दुःखमासादयितुमर्हति ॥ २.१०६.७॥
106.8
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ २.१०६.८॥
106.9
धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् ।
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ २.१०६.९॥
106.10
कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ।
जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ॥ २.१०६.१०॥
106.11
गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च ।
तातं न परिगर्हेयं दैवतं चेति संसदि ॥ २.१०६.११॥
106.12
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।
स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ २.१०६.१२॥
106.13
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।
राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥ २.१०६.१३॥
106.14
साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् ।
तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ २.१०६.१४॥
106.15
पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ २.१०६.१५॥
106.16
तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः ।
अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ २.१०६.१६॥
106.17
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः ।
पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ २.१०६.१७॥
106.18
क्व चारण्यं क्व च क्षात्त्र क्व जटाः क्व च पालनम् ।
ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ २.१०६.१८॥
106.19
एष हि प्रथमो धर्मः क्षत्ित्रयस्याभिषेचनम् ।
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ २.१०६.१९॥
106.20
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।
आयतिस्थं चरेद्धर्मं क्षत्त्रबन्धुरनिश्चितम् ॥ २.१०६.२०॥
106.21
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।
धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ २.१०६.२१॥
106.22
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।
प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ २.१०६.२२॥
106.23
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् ।
स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २.१०६.२३॥
106.24
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ।
भवता च विनाभूतो न वर्त्तयितुमुत्सहे ॥ २.१०६.२४॥
106.25
इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।
अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ २.१०६.२५॥
106.26
इहैव त्वा ऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह ।
ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥ २.१०६.२६॥
106.27
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।
विजित्य तरसा लोकान् मरुद्भिरिव वासवः ॥ २.१०६.२७॥
106.28
ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्द्दहन् ।
सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ २.१०६.२८॥
106.29
अद्यार्य मुदिताः सन्तु सुहृदस्ते ऽभिषेचने ।
अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश ॥ २.१०६.२९॥
106.30
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।
अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ २.१०६.३०॥
106.31
शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि ।
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥ २.१०६.३१॥
106.32
अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः ।
गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ २.१०६.३२॥
106.33
तथाहि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः ।
न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थितः ॥ २.१०६.३३॥
106.34
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः ।
न यात्ययोध्यामिति दुःखितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ २.१०६.३४॥
106.35
तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातरः ।
तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ॥ २.१०६.३५ ॥