सर्ग 101
101.1
तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षसाधिपः ।
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ।। ६.१०१.१ ।।
101.2
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।
उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ।। ६.१०१.२ ।।
101.3
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।
कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ।। ६.१०१.३ ।।
101.4
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ।
निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ।। ६.१०१.४ ।।
101.5
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।
जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ।। ६.१०१.५ ।।
101.6
तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना ।
रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ।। ६.१०१.६ ।।
101.7
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।
कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ।। ६.१०१.७ ।।
101.8
तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः ।
पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ।। ६.१०१.८ ।।
101.9
तानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः ।
आयुधानि च चित्राणि रावणस्य चमूमुखे ।। ६.१०१.९ ।।
101.10
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।
विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ।। ६.१०१.१० ।।
101.11
स विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः ।
रावणेन महातेजा न प्राकम्पत राघवः ।। ६.१०१.११ ।।
101.12
ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः ।
राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ।। ६.१०१.१२ ।।
101.13
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।
लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ।। ६.१०१.१३ ।।
101.14
तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ।। ६.१०१.१४ ।।
101.15
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।
जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ।। ६.१०१.१५ ।।
101.16
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ।। ६.१०१.१६ ।।
101.17
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् ।
जघानाप्लुत्य गदया रावणस्य विभीषणः ।। ६.१०१.१७ ।।
101.18
हताश्वाद्वेगवान् वेगादवप्लुत्य महारथात् ।
क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ।। ६.१०१.१८ ।।
101.19
ततः शक्तिं महाशक्तिर्दीप्तां दींप्ताशनीमिव ।
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ।। ६.१०१.१९ ।।
101.20
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ।
अथोदतिष्ठत् सन्नादो वानराणां तदा रणे ।। ६.१०१.२० ।।
101.21
सा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी ।
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ।। ६.१०१.२१ ।।
101.22
ततः सम्भाविततरां कालेनापि दुरासदाम् ।
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ।। ६.१०१.२२ ।।
101.23
सा वेगिता बलवता रावणेन दुरासदा ।
जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ।। ६.१०१.२३ ।।
101.24
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ।
प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ।। ६.१०१.२४ ।।
101.25
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।
रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ।। ६.१०१.२५ ।।
101.26
कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।
स प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ।। ६.१०१.२६ ।।
101.27
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।
लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ।। ६.१०१.२७ ।।
101.28
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः ।
विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ।। ६.१०१.२८ ।।
101.29
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।
मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ।। ६.१०१.२९ ।।
101.30
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।
मयेन मायाविहिताममोघां शत्रुघातिनीम् ।। ६.१०१.३० ।।
101.31
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।
रावणः परमक्रुद्धश्चिक्षेप च ननाद च ।। ६.१०१.३१ ।।
101.32
सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना ।
शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ।। ६.१०१.३२ ।।
101.33
तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।
स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ।। ६.१०१.३३ ।।
101.34
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा ।
मुक्ता ऽ ऽशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ।। ६.१०१.३४ ।।
101.35
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि ।
जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ।। ६.१०१.३५ ।।
101.36
ततो रावणवेगेन सुदूरमवगाढया ।
शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ।। ६.१०१.३६ ।।
101.37
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।
भ्रातृस्नेहान्महातेजा विषण्णहृदयो ऽभवत् ।। ६.१०१.३७ ।।
101.38
स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः ।
बभूव संरब्धतरो युगान्त इव पावकः ।। ६.१०१.३८ ।।
101.39
न विषादस्य कालो ऽयमिति सञ्चिन्त्य राघवः ।
चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ।सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ।। ६.१०१.३९ ।।
101.40
स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।
लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ।। ६.१०१.४० ।।
101.41
तामपि प्रहितां शक्तिं रावणेन बलीयसा ।
यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ।। ६.१०१.४१ ।।
101.42
अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ।
। ६.१०१.४२ ।।
101.43
सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ।
। ६.१०१.४३ ।।
101.44
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।
बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ।। ६.१०१.४४ ।।
101.45
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ।। ६.१०१.४५ ।।
101.46
अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्णमम् ।
अब्रवीच्छ हनूमन्तं सुग्रीवं चैव राघवः ।। ६.१०१.४६ ।।
101.47
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ।
। ६.१०१.४७ ।।
101.48
पराक्रमस्य कालो ऽयं सम्प्राप्तो मे चिरेप्सितः ।
पापात्मा ऽयं दशग्रीवो वध्यतां पापनिश्चयः ।काङ्क्षतः स्तोककस्येव घर्मान्ते मेघदर्शनम् ।। ६.१०१.४८ ।।
101.49
अस्मिन् मुहूर्ते न चिरात् सत्यं प्रतिशृणोमि वः ।
अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ।। ६.१०१.४९ ।।
101.50
राज्यनाशं वने वासं दण्डके परिधावनम् ।
वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ।। ६.१०१.५० ।।
101.51
प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ।
अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ।। ६.१०१.५१ ।।
101.52
यदर्थं वानरं सैन्यं समानीतमिदं मया ।
सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ।। ६.१०१.५२ ।।
101.53
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ।
सो ऽयमद्य रणे पापश्चक्षुर्विषयमागतः ।। ६.१०१.५३ ।।
101.54
चक्षुर्विषयमागम्य नायं जीवितुमर्हति ।
दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ।। ६.१०१.५४ ।।
101.55
स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः ।
आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ।। ६.१०१.५५ ।।
101.56
अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ।
त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ।। ६.१०१.५६ ।।
101.57
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।
सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ।समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ।। ६.१०१.५७ ।।
101.58
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।
आजघान दशग्रीवं रणे रामः समाहितः ।। ६.१०१.५८ ।।
101.59
अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।
अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ।। ६.१०१.५९ ।।
101.60
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।
शराणां च शराणां च बभूव तुमुलः स्वनः ।। ६.१०१.६० ।।
101.61
ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।
अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ।। ६.१०१.६१ ।।
101.62
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ।
त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ।। ६.१०१.६२ ।।
101.63
स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मता ऽर्दितः ।
भयात् प्रदुद्राव समेत्य रावणो यथा ऽनिलेनाभिहतो बलाहकः ।। ६.१०१.६३ ।।
101.64
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोत्तरशततमः सर्गः ।
। १०१ ।।