Utshovऐप डाउनलोड करें

सर्ग 102

102.1

शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा ।
लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ।। ६.१०२.१ ।।

102.2

स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ।
विसृजन्नेव बाणौघान् सुषेणं वाक्यमब्रवीत् ।। ६.१०२.२ ।।

102.3

एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ ।
सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ।। ६.१०२.३ ।।

102.4

शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम ।
पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ।। ६.१०२.४ ।।

102.5

अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।
यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ।। ६.१०२.५ ।।

102.6

लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ।
सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ।अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव ।। ६.१०२.६ ।।

102.7

चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ।
। ६.१०२.७ ।।सीदन्ति दृष्टिर्बाष्पवशं गता ।भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ।। ६.१०२.८ ।।।सीदन्ति दृष्टिर्बाष्पवशं गता ।विनिष्टनन्तं दुःखार्थं मर्मण्यभिहतं भृशम् ।राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् ।दुःखेन महता ऽ ऽविष्टो ध्यानशोकपरायणः ।। ६.१०२.९ ।।

102.8

परं विषादमापन्नो विललापाकुलेन्द्रियः ।
। ६.१०२.१० ।।

102.9

न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।
भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ।। ६.१०२.११ ।।

102.10

किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ।
यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ।। ६.१०२.१२ ।।

102.11

देशे देशे कलत्राणि देशे देशे च बान्धवाः ।
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ।। ६.१०२.१३ ।।

102.12

इत्यवं विलपन्तं तं शोकविह्वलितेन्द्रियम् ।
विवेष्टमानं करुणमुच्छ्वसन्तं पुनःपुनः ।राममाश्वासयन् वीरः सुषेणो वाक्यमब्रवीत् ।। ६.१०२.१४ ।।

102.13

न मृतो ऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः ।
न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् ।। ६.१०२.१५ ।।

102.14

सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ।
पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ।। ६.१०२.१६ ।।

102.15

एवं न विद्यते रूपं गतासूनां विशाम्पते ।
दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीद्दशम् ।। ६.१०२.१७ ।।

102.16

नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ।
मा विषादं कृथा वीर सप्राणो ऽयमरिन्दमः ।। ६.१०२.१८ ।।

102.17

आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ।
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ।। ६.१०२.१९ ।।

102.18

एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ।
हनुमन्तमुवाचेदं हनुमन्तमभित्वरन् ।। ६.१०२.२० ।।

102.19

सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।
पूर्वं ते कथितो यो ऽसौ वीर जाम्बवता शुभः ।। ६.१०२.२१ ।।

102.20

दक्षिणे शिखरे तस्य जातमोषधिमानय ।
विशल्यकरणीं नाम विशल्यकरणीं शुभाम् ।। ६.१०२.२२ ।।

102.21

सवर्णकरणीं चापि तथा सञ्जीवनीमपि ।
सन्धानकरणीं चापि गत्वा शीघ्रमिहानय ।। ६.१०२.२३ ।।

102.22

सञ्जीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ।
इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम् ।चिन्तामभ्यगमच्छ्रीमानजानंस्तां महौषधिम् ।। ६.१०२.२४ ।।

102.23

अस्मिन् हि शिखरे जातामोषधीं तां सुखावहाम् ।
प्रतर्केणावगच्छामि सुषेणो ऽप्येवमब्रवीत् ।। ६.१०२.२६ ।।

102.24

अगृह्य यदि गच्छामि विशल्यकरणीमहम् ।
कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ।। ६.१०२.२७ ।।

102.25

इति सञ्चिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः ।
आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः ।। ६.१०२.२८ ।।

102.26

फुल्लनानातरुगणं समुत्पाट्य महाबलः ।
गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ।। ६.१०२.२९ ।।

102.27

स नीलमिव जीमूतं तोयपूर्णं नभस्थलात् ।
आपपात गृहीत्वा तु हनुमान् शिखरं गिरेः ।। ६.१०२.३० ।।

102.28

समागम्य महावेगः सन्न्यस्य शिखरं गिरेः ।
विश्रम्य किञ्चिद्धनुमान् सुषेणमिदमब्रवीत् ।। ६.१०२.३१ ।।

102.29

ओषधिं नावगच्छामि तामहं हरिपुङ्गव ।
तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ।। ६.१०२.३२ ।।

102.30

एवं कथयमानं तं प्रशस्य पवनात्मजम् ।
सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ।। ६.१०२.३३ ।।

102.31

विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः ।
दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम् ।। ६.१०२.३४ ।।

102.32

ततः सङ्क्षोदयित्वा तामोषधीं वानरोत्तमः ।
लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः ।। ६.१०२.३५ ।।

102.33

सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा ।
विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ।। ६.१०२.३६ ।।

102.34

तमुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम् ।
साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ।। ६.१०२.३७ ।।

102.35

एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा ।
सस्वजे स्नेहगाढं च बाष्पपार्याकुलेक्षणः ।। ६.१०२.३८ ।।

102.36

अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ।
दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम् ।। ६.१०२.३९ ।।

102.37

न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण ।
को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते ।। ६.१०२.४० ।।

102.38

इत्येवं वदतस्तस्य राघवस्य महात्मनः ।
खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ।। ६.१०२.४१ ।।

102.39

तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ।
लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ।। ६.१०२.४२ ।।

102.40

न हि प्रतिज्ञां कुर्वन्ति वितथां साधवो ऽनघ ।
लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ।। ६.१०२.४३ ।।

102.41

नैराश्यमुपगन्तुं ते तदलं मत्कृते ऽनघ ।
वधेन रावणस्याद्य प्रतिज्ञामनुपालय ।। ६.१०२.४४ ।।

102.42

न जीवन् यास्यते शत्रुस्तव बाणपथं गतः ।
नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ।। ६.१०२.४५ ।।

102.43

अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।
यावदस्तं न यात्येष कृतकर्मा दिवाकरः ।। ६.१०२.४६ ।।

102.44

यदि वधमिच्छसि रावणस्य सङ्ख्ये यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम् ।
यदि तव राजवरात्मजाभिलाषः कुरु च वचो मम शीघ्रमद्यवीर ।। ६.१०२.४७ ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.