Utshovऐप डाउनलोड करें

सर्ग 58

58.1

स दृष्ट्वा लक्ष्मणम् दीनम् शून्यम् दशरथ आत्मजः ।
पर्यपृच्छत धर्माअत्मा वैदेहीम् आगतम् विना ॥३-५८-१॥

58.2

प्रस्थितम् दण्डक अरण्यम् या माम् अनुजगाम ह ।
क्व सा लक्ष्मण वैदेही याम् हित्वा त्वम् इह आगतः ॥३-५८-२॥

58.3

राज्य भ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।
क्व सा दुःख सहाया मे वैदेही तनु मध्यमा ॥३-५८-३॥

58.4

याम् विना न उत्सहे वीर मुहूर्तम् अपि जीवितुम् ।
क्व सा प्राण सहाया मे सीता सुर सुत उपमा ॥३-५८-४॥

58.5

पतित्वम् अमराणाम् वा पृथिव्याः च अपि लक्ष्मण ।
विना ताम् तपनीय आभाम् न इच्छेयम् जनक आत्मजाम् ॥३-५८-५॥

58.6

कच्चित् जीवति वैदेही प्राणैः प्रियतरा मम ।
कच्चित् प्रव्राजनम् वीर न मे मिथ्या भविष्यति ॥३-५८-६॥

58.7

सीता निमित्तम् सौमित्रे मृते मयि गते त्वयि ।
कच्चित् स कामा सुखिता कैकेयी सा भविष्यति ॥३-५८-७॥

58.8

स पुत्र राज्याम् सिद्ध अर्थाम् मृत पुत्रा तपस्विनी ।
उपस्थास्यति कौसल्या कच्चित् सौम्येन - सौम्य न - कैकयीम् ॥३-५८-८॥

58.9

यदि जीवति वैदेही गमिष्याम्य् आश्रमम् पुनः ।
सुवृत्ता यदि वृत्ता सा प्राणान् त्यक्ष्यामि लक्ष्मण ॥३-५८-९॥

58.10

यदि माम् आश्रम गतम् वैदेही न अभिभाषते ।
पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥३-५८-१०॥

58.11

ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।
त्वयि प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी ॥३-५८-११॥

58.12

सुकुमारी च बाला च नित्यम् च अदुःख दर्शिनी ।
मत् वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः ॥३-५८-१२॥

58.13

सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।
वदता लक्ष्मण इति उच्Cऐः तव अपि जनितम् भयम् ॥३-५८-१३॥

58.14

श्रुतः च मन्ये वैदेह्या स स्वरः सदृशो मम ।
त्रस्तया प्रेषितः त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः ॥३-५८-१४॥

58.15

सर्वथा तु कृतम् कष्टम् सीताम् उत्सृजता वने ।
प्रतिकर्तुम् नृशंसानाम् रक्षसाम् दत्तम् अन्तरम् ॥३-५८-१५॥

58.16

दुःखिताः खर घातेन राक्षसाः पिशित अशनाः ।
तैः सीता निहता घोरैः भविष्यति न संशयः ॥३-५८-१६॥

58.17

अहो अस्मि व्यसने मग्नः सर्वथा रिपु नाशन ।
किम् तु इदानीम् करिष्यामि शंके प्राप्तव्यम् ईदृशम् ॥३-५८-१७॥

58.18

इति सीताम् वरारोहाम् चिंतयन् एव राघवः ।
आजगाम जन स्थानम् त्वरया सह लक्ष्मणः ॥३-५८-१८॥

58.19

विगर्हमाणो अनुजम् आर्त रूपम्क्षुधा श्रमेण एव पिपासया च ।
विनिःश्वसन् शुष्क मुखो विषण्णःप्रतिश्रयम् प्राप्य समीक्ष्य शून्यम् ॥३-५८-१९॥

58.20

स्वम् आश्रमम् स प्रविगाह्य वीरोविहार देशान् अनुसृत्य कांश्चित् ।
एतत् तत् इति एव निवास भूमौप्रहृष्ट रोमा व्यथितो बभूव ॥३-५८-२०॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.