Utshovऐप डाउनलोड करें

सर्ग 114

114.1

स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः ।
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ २.११४.१॥

114.2

बिडालोलूकचरितामालीननरवारणाम् ।
तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २.११४.२॥

114.3

राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।
ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ २.११४.३॥

114.4

अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।
लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ २.११४.४॥

114.5

विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम् ।
हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ २.११४.५॥

114.6

विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।
हतप्रवीरामापन्नां चमूमिव महाहवे ॥ २.११४.६॥

114.7

सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।
प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ २.११४.७॥

114.8

त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ।
सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ २.११४.८॥

114.9

गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।
गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ २.११४.९॥

114.10

प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ।
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ २.११४.१०॥

114.11

सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।
संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ २.११४.११॥

114.12

पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।
द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ २.११४.१२॥

114.13

सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।
प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ २.११४.१३॥

114.14

क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् ।
हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ २.११४.१४॥

114.15

वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् ।
उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ २.११४.१५॥

114.16

विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ २.११४.१६॥

114.17

सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।
निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ २.११४.१७॥

114.18

शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् ।
प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ २.११४.१८॥

114.19

पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।
सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ २.११४.१९॥

114.20

प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ २.११४.२०॥

114.21

भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः ।
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २.११४.२१॥

114.22

किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।
यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ २.११४.२२॥

114.23

वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः ।
धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥ २.११४.२३॥

114.24

यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः ।
प्रमत्तगजनादश्च महांश्च रथनिस्वनः ।नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २.११४.२४॥

114.25

चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः ।
गते हि रामे तरुणाः सन्तप्ता नोपभुञ्जते ॥ २.११४.२५॥

114.26

बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः ।
नोत्सवाः सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥ २.११४.२६॥

114.27

सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।
नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २.११४.२७॥

114.28

कदा नु खलु मे भ्राता महोत्सव इवागतः ।
जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥ २.११४.२८॥

114.29

तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ।
सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥ २.११४.२९॥

114.30

एवं बहुविधं जल्पन् विवेश वसतिं पितुः ।
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २.११४.३०॥

114.31

तदा तदन्तःपुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।
निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः ॥ २.११४.३१ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.