Utshovऐप डाउनलोड करें

सर्ग 115

115.1

ततो निक्षिप्य मातऽः स अयोध्यायां दृढव्रतः ।
भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ २.११५.१॥

115.2

नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य वः ।
तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना ॥ २.११५.२॥

115.3

गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम ।
रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥ २.११५.३॥

115.4

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥ २.११५.४॥

115.5

सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ।
वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ २.११५.५॥

115.6

नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।
आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् ॥ २.११५.६॥

115.7

मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।
अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ २.११५.७॥

115.8

प्रहृष्टवदनः सर्वा मातऽः समभिवाद्य सः ।
आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वितः ॥ २.११५.८॥

115.9

आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ।
ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥ २.११५.९॥

115.10

अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजाः ।
प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतो ऽभवत् ॥ २.११५.१०॥

115.11

बलं च तदनाहूतं गजाश्वरथसङ्कुलम् ।
प्रययौ भरते याते सर्वे च पुरवासिनः ॥ २.११५.११॥

115.12

रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः ।
नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ २.११५.१२॥

115.13

ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः ।
अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ २.११५.१३॥

115.14

एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् ।
योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ २.११५.१४॥

115.15

भरतः शिरसा कृत्वा संन्यासं पादुके ततः ।
अब्रवीद्दुःखसन्तप्तः सर्वं प्रकृतिमण्डलम् ॥ २.११५.१५॥

115.16

छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।
आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥ २.११५.१६॥

115.17

भ्रात्रा हि मयि संन्यासो निक्षिप्तः सौहृदादयम् ।
तमिमं पालयिष्यामि राघवागमनं प्रति ॥ २.११५.१७॥

115.18

क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् ।
चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ २.११५.१८॥

115.19

ततो निक्षिप्तभारो ऽहं राघवेण समागतः ।
निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ २.११५.१९॥

115.20

राघवाय च संन्यासं दत्त्वे मे वरपादुके ।
राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ २.११५.२०॥

115.21

अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।
प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ २.११५.२१॥

115.22

एवं तु विलपन् दीनो भरतः स महायशाः ।
नन्दिग्रामे ऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह ॥ २.११५.२२॥

115.23

स वल्कलजटाधारी मुनिवेषधरः प्रभुः ।
नन्दिग्रामे ऽवसद्वीरः ससैन्यो भरतस्तदा ॥ २.११५.२३॥

115.24

रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः ।
भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ २.११५.२४॥

115.25

पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा ।
भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २.११५.२५॥

115.26

ततस्तु भरतः श्रीमानभिषिच्यार्य्यपादुके ।
तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २.११५.२६॥

115.27

तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् ।
स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ २.११५.२७ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.