Utshovऐप डाउनलोड करें

सर्ग 113

113.1

ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥ २.११३.१॥

113.2

वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः ।
अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥ २.११३.२॥

113.3

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ २.११३.३॥

113.4

पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ २.११३.४॥

113.5

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।
आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥ २.११३.५॥

113.6

स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।
अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ २.११३.६॥

113.7

ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।
अपि कृत्यं कृतं तात रामेण च समागतम् ॥ २.११३.७॥

113.8

एवमुक्तः स तु ततो भरद्वाजेन धीमता ।
प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः ॥ २.११३.८॥

113.9

स याच्यमानो गुरुणा मया च दृढविक्रमः ।
राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ २.११३.९॥

113.10

पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ।
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ २.११३.१०॥

113.11

एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह ।
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ २.११३.११॥

113.12

एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ २.११३.१२॥

113.13

एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।
पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ २.११३.१३॥

113.14

निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ २.११३.१४॥

113.15

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ॥ २.११३.१५॥

113.16

नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।
यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ २.११३.१६॥

113.17

अमृतः स महाबाहुः पिता दशरथस्तव ।
यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥ २.११३.१७॥

113.18

तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः ।
आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ २.११३.१८॥

113.19

ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः ।
भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ २.११३.१९॥

113.20

यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः ।
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २.११३.२०॥

113.21

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।
ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम् ॥ २.११३.२१॥

113.22

तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धवः ।
शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः ॥ २.११३.२२॥

113.23

शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ २.११३.२३॥

113.24

अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।
भरतो दुःखसन्तप्तः सारथिं चेदमब्रवीत् ॥ २.११३.२४॥

113.25

सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।
निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २.११३.२५ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.