Utshovऐप डाउनलोड करें

सर्ग 112

112.1

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।
विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः ॥ २.११२.१॥

112.2

अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः ।
तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २.११२.२॥

112.3

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।
श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे ॥ २.११२.३॥

112.4

ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः ।
भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ॥ २.११२.४॥

112.5

कुले जात महाप्राज्ञ महावृत्त महायशः ।
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ २.११२.५॥

112.6

सदानृणमिमं रामं वयमिच्छामहे पितुः ।
अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ॥ २.११२.६॥

112.7

एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः ।
राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गताः ॥ २.११२.७॥

112.8

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः ।
रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ २.११२.८॥

112.9

स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया ।
कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ २.११२.९॥

112.10

राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।
कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ २.११२.१०॥

112.11

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।
पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ २.११२.११॥

112.12

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः ।
त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षकाः ॥ २.११२.१२॥

112.13

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ २.११२.१३॥

112.14

इत्युक्त्वा न्यपतद् भ्रातुः पादयोर्भरतस्तदा ।
भृशं सम्प्रार्थयामास राममेव प्रियंवदः ॥ २.११२.१४॥

112.15

तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।
श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ २.११२.१५॥

112.16

आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या ।
भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ २.११२.१६॥

112.17

अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः ।
सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥ २.११२.१७॥

112.18

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् ।
अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः ॥ २.११२.१८॥

112.19

कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।
न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥ २.११२.१९॥

112.20

एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् ।
तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २.११२.२०॥

112.21

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ २.११२.२१॥

112.22

सो ऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च ।
प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ २.११२.२२॥

112.23

स पादुके सम्प्रणम्य रामं वचनमब्रवीत् ।
चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २.११२.२३॥

112.24

फलमूलाशनो वीर भवेयं रघुनन्दन ।
तवागमनमाकांक्षन् वसन् वै नगराद्बहिः ॥ २.११२.२४॥

112.25

तव पादुकयोर्न्यस्तराज्यतन्त्रः परन्तप ।
चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम ।न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ २.११२.२५॥

112.26

तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।
शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ २.११२.२६॥

112.27

मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।
मया च सीतया चैव शप्तो ऽसि रघुसत्तम ॥ २.११२.२७॥

112.28

इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ह ॥ २.११२.२८॥

112.29

स पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।
प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥ २.११२.२९॥

112.30

अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।
व्यसर्जयद्राघववंशवर्द्धनः स्थिरः स्वधर्मे हिमवानिवाचलः ॥ २.११२.३०॥

112.31

तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः ।
स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश रामः ॥ २.११२.३१ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.