Utshovऐप डाउनलोड करें

सर्ग 111

111.1

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः ।
अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ २.१११.१॥

111.2

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः ।
आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २.१११.२॥

111.3

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।
प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ २.१११.३॥

111.4

सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।
मम त्वं वचनं कुर्वन् नातिवर्त्तेः सताङ्गतिम् ॥ २.१११.४॥

111.5

इमा हि ते परिषदः श्रेणयश्च द्विजास्तथा ।
एषु तात चरन् धर्मं नातिवर्त्तेः सताङ्गतिम् ॥ २.१११.५॥

111.6

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।
अस्यास्तु वचनं कुर्वन् नातिवर्त्तेः सताङ्गतिम् ॥ २.१११.६॥

111.7

भरतस्य वचः कुर्वन् याचमानस्य राघव ।
आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥ २.१११.७॥

111.8

एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् ।
प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥ २.१११.८॥

111.9

यन्मातापितरौ वृत्तं तनये कुरुतः सदा ।
न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ २.१११.९॥

111.10

यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।
नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ २.१११.१०॥

111.11

स हि राजा जनयिता पिता दशरथो मम ।
आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ २.१११.११॥

111.12

एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् ।
उवाच परमोदारः सूतं परमदुर्मनाः ॥ २.१११.१२॥

111.13

इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।
आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ २.१११.१३॥

111.14

अनाहारो निरालोको धनहीनो यथा द्विजः ।
शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ २.१११.१४॥

111.15

स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः ।
कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ २.१११.१५॥

111.16

तमुवाच महातेजा रामो राजर्षिसत्तमः ।
किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ २.१११.१६॥

111.17

ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।
न तु मूर्द्धाभिषिक्तानां विधिः प्रत्युपवेशने ॥ २.१११.१७॥

111.18

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।
पुरवर्य्यामितः क्षिप्रमयोध्यां याहि राघव ॥ २.१११.१८॥

111.19

आसीनस्त्वेव भरतः पौरजानपदं जनम् ।
उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ॥ २.१११.१९॥

111.20

ते तमूचुर्महात्मानं पौरजानपदा जनाः ।
काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ॥ २.१११.२०॥

111.21

एषो ऽपि हि महाभागः पितुर्वचसि तिष्ठति ।
अत एव न शक्ताः स्मो व्यावर्त्तयितुमञ्जसा ॥ २.१११.२१॥

111.22

तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २.१११.२२॥

111.23

एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।
उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २.१११.२३॥

111.24

अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।
श्रृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥ २.१११.२४॥

111.25

न याचे पितरं राज्यं नानुशासामि मातरम् ।
आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २.१११.२५॥

111.26

यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वचः ।
अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २.१११.२६॥

111.27

धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः ।
उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २.१११.२७॥

111.28

विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।
न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २.१११.२८॥

111.29

अपधिर्न मया कार्य्यो वनवासे जुगुप्सितः ।
युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २.१११.२९॥

111.30

जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।
सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ २.१११.३०॥

111.31

अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः ।
भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥ २.१११.३१॥

111.32

वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।
अनृतन्मोचयानेन पितरं तं महीपतिम् ॥ २.१११.३२ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.