Utshovऐप डाउनलोड करें

सर्ग 110

110.1

क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह ।
जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ २.११०.१॥

110.2

निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ २.११०.२॥

110.3

सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।
ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह ।स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ २.११०.३॥

110.4

असृजच्च जगत् सर्वं सह पुत्रैः कृतात्मभिः ।
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥ २.११०.४॥

110.5

तस्मान्मरीचिः संजज्ञे मरीचेः काश्यपः सुतः ॥ २.११०.५॥

110.6

विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः ।
स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ २.११०.६॥

110.7

यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ २.११०.७॥

110.8

इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः ।
कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥ २.११०.८॥

110.9

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।
बाणस्य तु महाबाहुरनरण्यो महायशाः ॥ २.११०.९॥

110.10

नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।
अनरण्ये महाराजे तस्करो नापि कश्चन ॥ २.११०.१०॥

110.11

अनरण्यान्महाबाहुः पृथू राजा बभूव ह ।
तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।स सत्यवचनाद्वीरः सशरीरो दिवङ्गतः ॥ २.११०.११॥

110.12

त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः ।
धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ २.११०.१२॥

110.13

युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत ।
मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत ॥ २.११०.१३॥

110.14

सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ।
यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ॥ २.११०.१४॥

110.15

भरतात्तु महाबाहोरसितो नाम जायत ।
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ २.११०.१५॥

110.16

तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः ।
स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ २.११०.१६॥

110.17

द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ।
एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ २.११०.१७॥

110.18

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।
तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ २.११०.१८॥

110.19

स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।
पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ।धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदनः ॥ २.११०.१९॥

110.20

कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।
पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २.११०.२०॥

110.21

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
गरेण सह तेनैव जातः स सगरो ऽभवत् ॥ २.११०.२१॥

110.22

स राजा सगरो नाम यः समुद्रमखानयत् ।
इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ २.११०.२२॥

110.23

असमञ्जस्तु पुत्रोभूत् सगरस्येति नः श्रुतम् ।
जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ २.११०.२३॥

110.24

अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् ।
दिलीपों ऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ २.११०.२४॥

110.25

भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुताः ।
ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवाः ॥ २.११०.२५॥

110.26

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।
कल्माषपादः सौदास इत्येवं प्रथितो भुवि ॥ २.११०.२६॥

110.27

कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुतः ।
यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २.११०.२७॥

110.28

शङ्खणस्य च पुत्रो ऽभूच्छूरः श्रीमान् सुदर्शनः ।
सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः ॥ २.११०.२८॥

110.29

शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः ।
प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युतिः ॥ २.११०.२९॥

110.30

अम्बरीषस्य पुत्रो ऽभून्नहुषः सत्यविक्रमः ।
नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ २.११०.३०॥

110.31

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।
अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥ २.११०.३१॥

110.32

तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुतः ।
तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ २.११०.३२॥

110.33

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
पूर्वजे नावरः पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ॥ २.११०.३३॥

110.34

स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि ।
प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशः ॥ २.११०.३४ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.