Utshovऐप डाउनलोड करें

सर्ग 35

35.1

अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् ।
प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ।। ७.३५.१ ॥

35.2

अतुलं बलमेतद्वै वालिनो रावणस्य च ।
न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ।। ७.३५.२ ॥

35.3

शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।
विक्रमश्च प्रभावश्च हनूमति कृतालयाः ।। ७.३५.३ ॥

35.4

दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् ।
समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ।। ७.३५.४ ॥

35.5

धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ।
दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ।। ७.३५.५ ॥

35.6

सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः ।
एते हनुमता तत्र ह्येकेन वितिपातिताः ।। ७.३५.६ ॥

35.7

भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् ।
लङ्का भस्मीकृता येन पावकेनेव मेदिनी ।। ७.३५.७ ॥

35.8

न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।
कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ।। ७.३५.८ ॥

35.9

एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।
प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ।। ७.३५.९ ॥

35.10

हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा ।
प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ।। ७.३५.१० ॥

35.11

किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया ।
तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ।। ७.३५.११ ॥

35.12

नहि वेदितवान्मन्ये हनूमानात्मनो बलम् ।
यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ।। ७.३५.१२ ॥

35.13

एतन्मे भगवन्सर्वं हनूमति महामतौ ।
विस्तरेण यथातत्त्वं कथयामरपूजित ।। ७.३५.१३ ॥

35.14

राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा ।
हनूमतः समक्षं तमिदं वचनमब्रवीत् ।। ७.३५.१४ ॥

35.15

सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।
न बले विद्यते तुल्यो न गतौ न मतौ परः ।। ७.३५.१५ ॥

35.16

अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा ।
न वेत्ता हि बलं येन बली सन्निरिमर्दनः ।। ७.३५.१६ ॥

35.17

बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल ।
तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ।। ७.३५.१७ ॥

35.18

यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव ।
समाधाय मतिं राम निशामय वदाम्यहम् ।। ७.३५.१८ ॥

35.19

सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।
यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ।। ७.३५.१९ ॥

35.20

तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता ।
जनयामास तस्यां वै वायुरात्मजमुत्तमम् ।। ७.३५.२० ॥

35.21

शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना ।
फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ।। ७.३५.२१ ॥

35.22

एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।
रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ।। ७.३५.२२ ॥

35.23

तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।
ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ।। ७.३५.२३ ॥

35.24

बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।
ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ।। ७.३५.२४ ॥

35.25

एतस्मिन्प्लवमाने तु शिशुभावे हनूमति ।
देवदानवयक्षाणां विस्मयः सुमहानभूत् ।। ७.३५.२५ ॥

35.26

नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा ।
यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ।। ७.३५.२६ ॥

35.27

यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः ।
यौवनं बलमासाद्य कथं वेगो भविष्यति ।। ७.३५.२७ ॥

35.28

तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।
सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ।। ७.३५.२८ ॥

35.29

बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् ।
पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ।। ७.३५.२९ ॥

35.30

शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ।
कार्यं चात्र समायत्तमित्येवं न ददाह सः ।। ७.३५.३० ॥

35.31

यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।
तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ।। ७.३५.३१ ॥

35.32

अनेन स परामृष्टो राम सूर्यरथोपरि ।
अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ।। ७.३५.३२ ॥

35.33

स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।
अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ।। ७.३५.३३ ॥

35.34

बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।
किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ।। ७.३५.३४ ॥

35.35

अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।
अथान्यो राहुरासाद्य जग्राह सहसा रविम् ।। ७.३५.३५ ॥

35.36

स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः ।
उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ।। ७.३५.३६ ॥

35.37

ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।
शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ।। ७.३५.३७ ॥

35.38

इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।
प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ।। ७.३५.३८ ॥

35.39

अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ।
अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ।। ७.३५.३९ ॥

35.40

ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च ।
उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ।। ७.३५.४० ॥

35.41

उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् ।
अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ।। ७.३५.४१ ॥

35.42

इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।
इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ।। ७.३५.४२ ॥

35.43

राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् ।
श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ।। ७.३५.४३ ॥

35.44

ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।
फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ।। ७.३५.४४ ॥

35.45

तथास्य धावतो रूपमैरावतजिघृक्षया ।
मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ।। ७.३५.४५ ॥

35.46

एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।
हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ।। ७.३५.४६ ॥

35.47

ततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।
पतमानस्य चैतस्य वामो हनुरभज्यत ।। ७.३५.४७ ॥

35.48

तस्मिंस्तु पतिते बाले वज्रताडनविह्वले ।
चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ।। ७.३५.४८ ॥

35.49

प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः ।
गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ।। ७.३५.४९ ॥

35.50

विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् ।
रुरोध सर्वभूतानि यथा वर्षाणि वासवः ।। ७.३५.५० ॥

35.51

वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।
सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ।। ७.३५.५१ ॥

35.52

निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् ।
वायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाभवत् ।। ७.३५.५२ ॥

35.53

ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।
प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ।। ७.३५.५३ ॥

35.54

ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः ।
त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ।। ७.३५.५४ ॥

35.55

त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः ।
सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ।। ७.३५.५५ ॥

35.56

रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।
तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ।। ७.३५.५६ ॥

35.57

एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।
कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ।। ७.३५.५७ ॥

35.58

यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च ।
प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ।। ७.३५.५८ ॥

35.59

पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ।
राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ।। ७.३५.५९ ॥

35.60

अशरीरः शरीरेषु वायुश्चरति पालयन् ।
शरीरं हि विना वायुं समतां याति दारुभिः ।। ७.३५.६० ॥

35.61

वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।
वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ।। ७.३५.६१ ॥

35.62

अद्यैव च परित्यक्तं वायुना जगदायुषा ।
अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ।। ७.३५.६२ ॥

35.63

तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ।
मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ।। ७.३५.६३ ॥

35.64

ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः ।
जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ।। ७.३५.६४ ॥

35.65

ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ।
चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ।। ७.३५.६५ ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.