Utshovऐप डाउनलोड करें

सर्ग 125

125.1

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।
अविदूरस्थितो रामं प्रत्युवाच विभीषणः ।। ६.१२५.१ ।।

125.2

स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।
अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ।। ६.१२५.२ ।।

125.3

तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ।। ६.१२५.३ ।।

125.4

कृतप्रयत्नकर्माणो विभीषण वनौकसः ।
रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ।। ६.१२५.४ ।।

125.5

सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर ।
हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः ।। ६.१२५.५ ।।

125.6

त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः ।
। ६.१२५.६ ।।

125.7

धनरत्नप्रदानेन कर्मैषां सफलं कुरु ।
। ६.१२५.७ ।।

125.8

एव सम्मानिताश्चैते मानार्हा मानद त्वया ।
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ।। ६.१२५.८ ।।

125.9

त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् ।
सर्वे त्वामवगच्छन्ति ततः सम्बोधयाम्यहम् ।। ६.१२५.९ ।।

125.10

हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे ।
त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ।। ६.१२५.१० ।।

125.11

एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः ।
रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ।। ६.१२५.११ ।।

125.12

ततस्तान् पूजितान् दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।
आरुरोह ततो रामस्तद्विमानमनुत्तमम् ।। ६.१२५.१२ ।।

125.13

अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ।। ६.१२५.१३ ।।

125.14

अब्रवीच्च विमानस्थः पूजयन् सर्ववानरान् ।
सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ।। ६.१२५.१४ ।।

125.15

मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः ।
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ।। ६.१२५.१५ ।।

125.16

यत्तु कार्यं वयस्येन सुहृदा वा परन्तप ।
कृतं सुग्रीव तत् सर्वं भवता ऽधर्म भीरुणा ।। ६.१२५.१६ ।।

125.17

विष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ।
। ६.१२५.१७ ।।

125.18

स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ।। ६.१२५.१८ ।।

125.19

अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ।
अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः ।। ६.१२५.१९ ।।

125.20

एवमुक्तास्तु रामेण वानरास्ते महाबलाः ।
ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ।। ६.१२५.२० ।।

125.21

अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ।
उद्युक्ता विचरिष्यामो वनानि नगराणि च ।। ६.१२५.२१ ।।

125.22

दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।
अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत ।। ६.१२५.२२ ।।

125.23

एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।
अब्रवीद्राघवः श्रीमान् ससुग्रीवविभीषणान् ।। ६.१२५.२३ ।।

125.24

प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः ।
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ।। ६.१२५.२४ ।।

125.25

क्षिप्रमारोह सुग्रीव विमानं वानरै सह ।
त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ।। ६.१२५.२५ ।।

125.26

ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया ।
अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषणः ।। ६.१२५.२६ ।।

125.27

तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।
राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ।। ६.१२५.२७ ।।

125.28

ययौ तेन विमानेन हंसयुक्तेन भास्वता ।
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ।। ६.१२५.२८ ।।

125.29

ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः ।
यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ।। ६.१२५.२९ ।।

125.30

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ।
। १२५ ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.