सर्ग 96
96.1
तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।
निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ २.९६.१॥
96.2
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।
एवमास्ते स धर्मात्मा सीतया सह राघवः ॥ २.९६.२॥
96.3
तथा तत्रासतस्तस्य भरतस्योपयायिनः ।
सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥ २.९६.३॥
96.4
एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः ।
अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः ॥ २.९६.४॥
96.5
स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः ।
तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥ २.९६.५॥
96.6
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।
उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ २.९६.६॥
96.7
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।
भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः ॥ २.९६.७॥
96.8
गजयूथानि वा ऽरण्ये महिषा वा महावने ।
वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः ॥ २.९६.८॥
96.9
राजा वा राजमात्रो वा मृगयामटते वने ।
अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥ २.९६.९॥
96.10
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।
सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ २.९६.१०॥
96.11
स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् ।
प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमुदैक्षत ॥ २.९६.११॥
96.12
उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् ।
रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः ॥ २.९६.१२॥
96.13
तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।
शशंस सेनां रामाय वचनं चेदमब्रीत् ॥ २.९६.१३॥
96.14
अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् ।
सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ २.९६.१४॥
96.15
तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।
अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ २.९६.१५॥
96.16
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।
दिधक्षन्निव तां सेनां रुषितः पावको यथा ॥ २.९६.१६॥
96.17
सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।
आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥ २.९६.१७॥
96.18
एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।
विराजत्युद्गतस्कन्धः कोविदारध्वजो रथे ॥ २.९६.१८॥
96.19
भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।
एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः ॥ २.९६.१९॥
96.20
गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।
अथवेहैव तिष्ठावः सन्नद्धावुद्यतायुधौ ॥ २.९६.२०॥
96.21
अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ॥ २.९६.२१॥
96.22
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।
त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥ २.९६.२२॥
96.23
यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।
सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ॥ २.९६.२३॥
96.24
भरतस्य वधे दोषं नाहं पश्यामि राघव ।
पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ २.९६.२४॥
96.25
पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।
एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥ २.९६.२५॥
96.26
अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।
मया पश्येत् सुदुःखार्त्ता हस्तिभग्नमिव द्रुमम् ॥ २.९६.२६॥
96.27
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।
कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २.९६.२७॥
96.28
अद्येमं संयतं क्रोधमसत्कारं च मानद ।
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २.९६.२८॥
96.29
अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः ।
भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २.९६.२९॥
96.30
शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।
श्वापदाः परिकर्षन्तु नरांश्च निहतान् मया ॥ २.९६.३०॥
96.31
शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।
ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥ २.९६.३१ ॥