Utshovऐप डाउनलोड करें

सर्ग 95

95.1

अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः ।
अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ २.९५.१॥

95.2

अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।
विदेहराजस्य सुतां रामो राजीवलोचनः ॥ २.९५.२॥

95.3

विचित्रपुलिनां रम्यां हंससारससेविताम् ।
कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ २.९५.३॥

95.4

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः ।
राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥ २.९५.४॥

95.5

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।
तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ २.९५.५॥

95.6

जटाजिनधराः काले वल्कलोत्तरवाससः ।
ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ २.९५.६॥

95.7

आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहवः ।
एते परे विशालाक्षि मुनयः संशितव्रताः ॥ २.९५.७॥

95.8

मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः ।
पादपैः पत्त्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ २.९५.८॥

95.9

क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।
क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ २.९५.९॥

95.10

निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।
पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ २.९५.१०॥

95.11

तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः ।
अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥ २.९५.११॥

95.12

दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने ।
अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ २.९५.१२॥

95.13

विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः ।
नित्यविक्षोभितजलां विगाहस्व मया सह ॥ २.९५.१३॥

95.14

सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।
कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ २.९५.१४॥

95.15

त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।
मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ २.९५.१५॥

95.16

लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः ।
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ २.९५.१६॥

95.17

उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः ।
नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥ २.९५.१७॥

95.18

इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः ।
सुपुष्पितैः पुष्पधरैरलङ्कृतां न सो ऽस्ति यः स्यादगतक्लमः सुखी ॥ २.९५.१८॥

95.19

इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन् ।
चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धनः ॥ २.९५.१९ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.