सर्ग 94
94.1
दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः ।
वैदेह्याः प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥ २.९४.१॥
94.2
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।
भार्य्याममरसङ्काशः शचीमिव पुरन्दरः ॥ २.९४.२॥
94.3
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः ।
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ २.९४.३॥
94.4
पश्येममचलं भद्रे नानाद्विजगणायुतम् ।
शिखरैः खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥ २.९४.४॥
94.5
केचिद्रजतसङ्काशाः केचित् क्षतजसन्निभाः ।
पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥ २.९४.५॥
94.6
पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः ।
विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिताः ॥ २.९४.६॥
94.7
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः ।
अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ॥ २.९४.७॥
94.8
आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः ।
अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः ॥ २.९४.८॥
94.9
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।
बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥ २.९४.९॥
94.10
पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः ।
एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ २.९४.१०॥
94.11
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।
किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विनः ॥ २.९४.११॥
94.12
शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च ।
पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ २.९४.१२॥
94.13
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।
स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥ २.९४.१३॥
94.14
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।
घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ २.९४.१४॥
94.15
यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते ।
लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ २.९४.१५॥
94.16
बहुपुष्पफले रम्ये नानाद्विजगणायुते ।
विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥ २.९४.१६॥
94.17
अनेन वनवासेन मया प्राप्तं फलद्वयम् ।
पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ २.९४.१७॥
94.18
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।
पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥ २.९४.१८॥
94.19
इदमेवामृतं प्राहू राज्ञि राजर्षयः परे ।
वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ २.९४.१९॥
94.20
शिलाः शैलस्य शोभन्ते विशालाः शतशो ऽभितः ।
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ॥ २.९४.२०॥
94.21
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।
ओषध्यः स्वप्रभालक्ष्या भ्राजमानाः सहस्रशः ॥ २.९४.२१॥
94.22
केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः ।
केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ २.९४.२२॥
94.23
भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः ।
चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वतः शुभः ॥ २.९४.२३॥
94.24
कुष्ठपुन्नागस्थगरभूर्जपत्रोत्तरच्छदान् ।
कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ २.९४.२४॥
94.25
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः ।
कामिभिर्वनिते पश्य फलानि विविधानि च ॥ २.९४.२५॥
94.26
वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।
पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदकः ॥ २.९४.२६॥
94.27
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।
रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः ॥ २.९४.२७ ॥