Utshovऐप डाउनलोड करें

सर्ग 93

93.1

तया महत्या यायिन्या ध्वजिन्या वनवासिनः ।
अर्द्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः ॥ २.९३.१॥

93.2

ऋक्षाः पृषतसङ्घाश्च रुरवश्च समतन्तः ।
दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २.९३.२॥

93.3

स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः ।
वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ २.९३.३॥

93.4

सागरौघनिभा सेना भरतस्य महात्मनः ।
महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुदः ॥ २.९३.४॥

93.5

चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥ २.९३.५॥

93.6

स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः ।
उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ २.९३.६॥

93.7

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।
व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥ २.९३.७॥

93.8

अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी ।
एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ २.९३.८॥

93.9

गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति ।
वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥ २.९३.९॥

93.10

मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु ।
नीला इवातपापाये तोयं तोयधरा घनाः ॥ २.९३.१०॥

93.11

किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् ।
मृगैः समन्तादाकीर्णं मकरैरिव सागरम् ॥ २.९३.११॥

93.12

एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः ।
वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ २.९३.१२॥

93.13

कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी ।
मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ॥ २.९३.१३॥

93.14

निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।
अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ २.९३.१४॥

93.15

खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।
तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ २.९३.१५॥

93.16

स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् ।
एतान् सम्पततः शीघ्रं पश्य शत्रुघ्न कानने ॥ २.९३.१६॥

93.17

एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान् ।
एतमाविशतः शीघ्रमधिवासं पतत्ित्रणः ॥ २.९३.१७॥

93.18

अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा ।
तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ॥ २.९३.१८॥

93.19

मृगा मृगीभिः सहिता बहवः पृषता वने ।
मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ॥ २.९३.१९॥

93.20

साधुसैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने ।
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २.९३.२०॥

93.21

भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः ।
विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः ॥ २.९३.२१॥

93.22

ते समालोक्य धूमाग्रमूचुर्भरतमागताः ।
नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥ २.९३.२२॥

93.23

अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ ।
मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ २.९३.२३॥

93.24

तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् ।
सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ॥ २.९३.२४॥

93.25

यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः ।
अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ २.९३.२५॥

93.26

एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः ।
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २.९३.२६॥

93.27

व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः ।
बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २.९३.२७ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.