सर्ग 92
92.1
ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः ।
कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥ २.९२.१॥
92.2
तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।
हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ॥ २.९२.२॥
92.3
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।
समग्रस्ते जनः कच्चिदातिथ्ये शंस मे ऽनघ ॥ २.९२.३॥
92.4
तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च ।
आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ २.९२.४॥
92.5
सुखोषितो ऽस्मि भगवन् समग्रबलवाहनः ।
तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥ २.९२.५॥
92.6
अपेतक्लमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः ।
अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः ॥ २.९२.६॥
92.7
आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम ।
समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ २.९२.७॥
92.8
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः ।
आचक्ष्व कतमो मार्गः कियानिति च शंस मे ॥ २.९२.८॥
92.9
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।
प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥ २.९२.९॥
92.10
भरतार्द्धतृतीयेषु योजनेष्वजने वने ।
चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥ २.९२.१०॥
92.11
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।
पुष्िपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ २.९२.११॥
92.12
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः ।
तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ २.९२.१२॥
92.13
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ २.९२.१३॥
92.14
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः ।
हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥ २.९२.१४॥
92.15
वेपमाना कृशा दीना सह देव्या सुमित्रया ।
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः ॥ २.९२.१५॥
92.16
असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ २.९२.१६॥
92.17
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।
अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ २.९२.१७॥
92.18
ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ।
विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ॥ २.९२.१८॥
92.19
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ।
उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥ २.९२.१९॥
92.20
यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।
पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २.९२.२०॥
92.21
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।
कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २.९२.२१॥
92.22
अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ।
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २.९२.२२॥
92.23
एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ ।
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २.९२.२३॥
92.24
यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ।
राजपुत्रविहीनश्च स्वर्गं दशरथो गतः ॥ २.९२.२४॥
92.25
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।
ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २.९२.२५॥
92.26
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।
यतो मूलं हि पश्यामि व्यसनं महदात्मनः ॥ २.९२.२६॥
92.27
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।
स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ॥ २.९२.२७॥
92.28
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।
प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २.९२.२८॥
92.29
न दोषेणावगन्तव्या कैकेयी भरत त्वया ।
रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ २.९२.२९॥
92.30
देवानां दानवानां च ऋषीणां भावितात्मनाम् ।
हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ २.९२.३०॥
92.31
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् ।
आमन्त्र्य भरतः सेन्यं युज्यतामित्यचोदयत् ॥ २.९२.३१॥
92.32
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।
अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः ॥ २.९२.३२॥
92.33
गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः ।
जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे ॥ २.९२.३३॥
92.34
विविधान्यपि यानानि महान्ति च लघूनि च ।
प्रययुः सुमहार्हाणि पादैरेव पदातयः ॥ २.९२.३४॥
92.35
अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः ।
रामदर्शनकांक्षिण्यः प्रययुर्मुदितास्तदा ॥ २.९२.३५॥
92.36
चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।
आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः ॥ २.९२.३६॥
92.37
सा प्रयाता महासेना गजवाजिरथाकुला ।
दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥ २.९२.३७॥
92.38
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः ।
गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥ २.९२.३८॥
92.39
सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् ।
महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ २.९२.३९ ॥