Utshovऐप डाउनलोड करें

सर्ग 91

91.1

कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ २.९१.१॥

91.2

अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।
पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ २.९१.२॥

91.3

अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ २.९१.३॥

91.4

सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ।
मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ २.९१.४॥

91.5

किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ।
कस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥ २.९१.५॥

91.6

भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।
ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ २.९१.६॥

91.7

राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।
यत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥ २.९१.७॥

91.8

वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।
प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ २.९१.८॥

91.9

ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।
न हिंस्युरिति तेनाहमेक एव समागतः ॥ २.९१.९॥

91.10

आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा ।
ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ २.९१.१०॥

91.11

अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ २.९१.११॥

91.12

आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१२॥

91.13

आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१३॥

91.14

प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च ।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ २.९१.१४॥

91.15

अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् ।
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ २.९१.१५॥

91.16

आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।
तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वशः ॥ २.९१.१६॥

91.17

घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।
नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ २.९१.१७॥

91.18

शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः ।
सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदाः ॥ २.९१.१८॥

91.19

वनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत् ।
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ २.९१.१९॥

91.20

इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २.९१.२०॥

91.21

विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
सुरादीनि च पेयानि मांसानि विविधानि च ॥ २.९१.२१॥

91.22

एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च ।
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ २.९१.२२॥

91.23

मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः ।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २.९१.२३॥

91.24

मलयं दर्दुरं चैव ततः स्वेदनुदऽ ऽनिलः ।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ २.९१.२४॥

91.25

ततोभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः ।
दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २.९१.२५॥

91.26

प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणाः ।
प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ २.९१.२६॥

91.27

स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।
विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ २.९१.२७॥

91.28

तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् ।
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ २.९१.२८॥

91.29

बभूव हि समा भूमिः समन्तात्पञ्चयोजना ।
शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभैः ॥ २.९१.२९॥

91.30

तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः ।
आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ २.९१.३०॥

91.31

उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।
आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ २.९१.३१॥

91.32

चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् ।
हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ २.९१.३२॥

91.33

सितमेघनिभं चापि राजवेश्मसु तोरणम् ।
दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ २.९१.३३॥

91.34

चतुरश्रमसम्बाधं शयनासनयानवत् ।
दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ २.९१.३४॥

91.35

क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।वेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ॥ २.९१.३५॥

91.36

अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः ।
बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ २.९१.३६॥

91.37

तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।
भरतो मन्त्रिभिः सार्द्धमभ्यवर्त्तत राजवत् ॥ २.९१.३७॥

91.38

आसनं पूजयामास रामायाभिप्रणम्य च ।
वालव्यजनमादाय न्यषीदत् सचिवासने ॥ २.९१.३८॥

91.39

आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः ।
ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥ २.९१.३९॥

91.40

ततस्तत्र मुहूर्त्तेन नद्यः पायसकर्दमाः ।
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ २.९१.४०॥

91.41

तासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः ।
रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ २.९१.४१॥

91.42

तेनैव च मुहूर्त्तेन दिव्याभरणभूषिताः ।
आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ २.९१.४२॥

91.43

सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः ।
आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ २.९१.४३॥

91.44

याभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते ।
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ २.९१.४४॥

91.45

नारदस्तुम्बुरुर्गोपः प्रवराः सूर्य्यवर्चसः ।
एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ २.९१.४५॥

91.46

अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।
उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ २.९१.४६॥

91.47

यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ २.९१.४७॥

91.48

बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः ।
अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ २.९१.४८॥

91.49

ततः सरलतालाश्च तिलका नक्तमालकाः ।
प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥ २.९१.४९॥

91.50

शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः ।
मालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥ २.९१.५०॥

91.51

प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् ।
सुराः सुरापाः पिबत पायसं च बुभुक्षिताः ।मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ २.९१.५१॥

91.52

उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।
अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ २.९१.५२॥

91.53

संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः ।
परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ २.९१.५३॥

91.54

हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् ।
अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ २.९१.५४॥

91.55

इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।
इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ २.९१.५५॥

91.56

नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रहः ।
मत्तप्रमत्तमुदिता नमूः सा तत्र सम्बभौ ॥ २.९१.५६॥

91.57

तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः ।
अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥ २.९१.५७॥

91.58

नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ २.९१.५८॥

91.59

इति पादातयोधाश्च हस्त्यश्वारोह बन्धकाः ।
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ २.९१.५९॥

91.60

सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः ।
भरतस्यानुयातारः स्वर्गोयमिति चाब्रुवन् ॥ २.९१.६०॥

91.61

नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः ।
समन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥ २.९१.६१॥

91.62

ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥ २.९१.६२॥

91.63

प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रशः ।
बभूवुस्ते भृशं दृप्ताः सर्वे चाहतवाससः ॥ २.९१.६३॥

91.64

कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः ।
बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ २.९१.६४॥

91.65

नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा ।
रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ २.९१.६५॥

91.66

आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः ।
फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥ २.९१.६६॥

91.67

पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः ।
ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ २.९१.६७॥

91.68

बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ।
ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुतः ॥ २.९१.६८॥

91.69

वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः ।
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ २.९१.६९॥

91.70

पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।
न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ २.९१.७०॥

91.71

स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ।
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ २.९१.७१॥

91.72

ह्रदाः पूर्णा रसालस्य दघ्नः श्वेतस्य चापरे ।
बभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥ २.९१.७२॥

91.73

कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।
ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ २.९१.७३॥

91.74

शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ २.९१.७४॥

91.75

दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।
पादुकोपानहश्चैव युग्मानि च सहस्रशः ॥ २.९१.७५॥

91.76

आञ्जनीः कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।
मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ २.९१.७६॥

91.77

प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।
अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ २.९१.७७॥

91.78

आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।
नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ २.९१.७८॥

91.79

निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ २.९१.७९॥

91.80

व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ २.९१.८०॥

91.81

इत्येवं रममाणानां देवानामिव नन्दने ।
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ २.९१.८१॥

91.82

प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ २.९१.८२॥

91.83

तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः ।
तथैव दिव्या विविधाः स्रगुत्तमाः पृथक् प्रकीर्णा मनुजैः प्रमर्दिताः ॥ २.९१.८३ ॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.