सर्ग 90
90.1
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः ।
बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥ २.९०.१
90.2
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः ।
वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २.९०.२
90.3
ततः सन्दर्शने तस्य भरद्वाजस्य राघवः ।
मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ २.९०.३
90.4
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः ।
सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन् ॥ २.९०.४
90.5
वसिष्ठसाहचर्य्यादिति भावः ॥ २.९०.५
90.6
ताभ्यामर्ध्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।
आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥ २.९०.६
90.7
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।
जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ २.९०.७
90.8
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।
शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ २.९०.८
90.9
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः ।
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ २.९०.९
90.10
किमिहागमने कार्य्यं तव राज्यं प्रशासतः ।
एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मनः ॥ २.९०.१०
90.11
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् ।
भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ २.९०.११
90.12
नियुक्तः स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशाः ।
वनवासी भवेतीह समाः किल चतुर्दश ॥ २.९०.१२
90.13
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।
अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ २.९०.१३
90.14
एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह ।
पर्य्यश्रुनयनो दुःखाद्वाचा संसज्जमानया ॥ २.९०.१४
90.15
हतो ऽस्मि यदि मामेवं भगवानपि मन्यते ।
मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ २.९०.१५
90.16
न चैत दिष्टं माता मे यदवोचन्मदन्तरे ।
नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ २.९०.१६
90.17
अहं तु तं नरव्याघ्रमुपयातः प्रसादकः ।
प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ २.९०.१७
90.18
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।
शंस मे भगवन् रामः क्व सम्प्रति महीपतिः ॥ २.९०.१८
90.19
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्ततः ।
उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ॥ २.९०.१९
90.20
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २.९०.२०
90.21
जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति ।
अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ २.९०.२१
90.22
जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् ।
असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २.९०.२२
90.23
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः ।
एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २.९०.२३
90.24
ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतो ऽब्रवीद्वचः ।
चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मजः ॥ २.९०.२४ ॥