सर्ग 89
89.1
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः ।
भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। २.८९.१ ।।
89.2
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।। २.८९.२ ।।
89.3
जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् ।
इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदितः ।। २.८९.३ ।।
89.4
इति संवदतोरेवमन्योन्यं नरसिंहयोः ।
आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ।। २.८९.४ ।।
89.5
कच्चित्सुखं नदीतीरे ऽवात्सीः काकुत्स्थ शर्वरीम् ।
कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।। २.८९.५ ।।
89.6
गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।
रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ।। २.८९.६ ।।
89.7
सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम् ।
गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ।। २.८९.७ ।।
89.8
ततो गुहः संत्वरितं श्रुत्वा भरतशासनम् ।
प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।। २.८९.८ ।।
89.9
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वः सदा ।
नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ।। २.८९.९ ।।
89.10
ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् ।
पञ्च नावां शतान्याशु समानिन्युः समन्ततः ।। २.८९.१० ।।
89.11
अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा वराः ।
शोभमानाः पताकाभिर्युक्तवाताः सुसंहताः ।। २.८९.११ ।।
89.12
ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।तामारुरोह भरतः शत्रुघ्नश्च महाबलः ।। २.८९.१२ ।।
89.13
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ।
पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।अनन्तरं राजदारास्तथैव शकटापणाः ।। २.८९.१३ ।।
89.14
आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।
भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।। २.८९.१४ ।।
89.15
पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः ।
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ।। २.८९.१५ ।।
89.16
नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् ।
काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।। २.८९.१६ ।।
89.17
ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् ।
निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ।। २.८९.१७ ।।
89.18
सवैजयन्तास्तु गजा गजारोहप्रचोदिताः ।
तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ।। २.८९.१८ ।।
89.19
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।
अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ।। २.८९.१९ ।।
89.20
सा पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम् ।
मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ।। २.८९.२० ।।
89.21
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृतः सन् भरतः प्रतस्थे ।। २.८९.२१ ।।
89.22
स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।
ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ।। २.८९.२२ ।।