सर्ग 97
97.1
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्।
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ २.९७.१॥
97.2
किमत्र धनुषा कार्यमसिना वा सचर्मणा।
महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २.९७.२॥
97.3
पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्।
किं करिष्यामि राज्येन सापवादेन लक्ष्मण ॥ २.९७.३॥
97.4
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्।
नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ २.९७.४॥
97.5
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण।
इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥ २.९७.५॥
97.6
भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण।
राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ २.९७.६॥
97.7
नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा।
नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ २.९७.७॥
97.8
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद।
भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥ २.९७.८॥
97.9
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः।
मम प्राणात् प्रियतरः कुलधर्ममनुस्मरन् ॥ २.९७.९॥
97.10
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्।
जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ २.९७.१०॥
97.11
स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः।
द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गतः ॥ २.९७.११॥
97.12
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्।
प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः ॥ २.९७.१२॥
97.13
प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति।
अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥ २.९७.१३॥
97.14
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्।
ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥ २.९७.१४॥
97.15
नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः।
अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥ २.९७.१५॥
97.16
कथं नु पुत्राः पितरं हन्युः कस्याञ्चिदापदि।
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः ॥ २.९७.१६॥
97.17
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ २.९७.१७॥
97.18
उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वतः।
राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ २.९७.१८॥
97.19
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः।
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥ २.९७.१९॥
97.20
तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह।
त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥ २.९७.२०॥
97.21
व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह।
एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः ॥ २.९७.२१॥
97.22
अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ।
वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ २.९७.२२॥
97.23
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्।
पिता मे राघवः श्रीमान् वनादादाय यास्यति ॥ २.९७.२३॥
97.24
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ।
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ २.९७.२४॥
97.25
स एष सुमहाकायः कम्पते वाहिनीमुखे।
नागः शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः ॥ २.९७.२५॥
97.26
न तु पश्यामि तच्छत्त्रं पाण्डरं लोकसत्कृतम्।
पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ २.९७.२६॥
97.27
प्रथममर्धमुत्तरार्धेन योजनीयम् ॥ २.९७.२७॥
97.28
अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जयः।
लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥ २.९७.२८॥
97.29
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिति।
समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २.९७.२९॥
97.30
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा।
पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ २.९७.३०॥
97.31
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्।
प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ २.९७.३१ ॥