सूक्त 103
103.1
१४ सौभरिः काण्वः ।अग्निः; १४ अग्नामरुतः । बृहती; ५ विराड्रूपा; ७,९,११,१३ सतोबृहती ; ८,१२ ककुप् ; १० ह्रसीयसी; १४ अनुष्टुप् ।
अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः । उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिर॑ः ॥१॥
103.2
प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ । अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥२॥
103.3
यस्मा॒द्रेज॑न्त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः । स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ऽग्निं धी॒भिः स॑पर्यत ॥३॥
103.4
प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् । स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिण॑म् ॥४॥
103.5
स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑ः ।
त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥५॥
103.6
यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ म॒न्द्रो जना॑नाम् । मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यन्त्य॒ग्नये॑ ॥६॥
103.7
अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यन्ते॑ देव॒यव॑ः । उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोना॑म् ॥७॥
103.8
प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे । उप॑स्तुतासो अ॒ग्नये॑ ॥८॥
103.9
आ वं॑सते म॒घवा॑ वी॒रव॒द्यश॒ः समि॑द्धो द्यु॒म्न्याहु॑तः । कु॒विन्नो॑ अस्य सुम॒तिर्नवी॑य॒स्यच्छा॒ वाजे॑भिरा॒गम॑त् ॥९॥
103.10
प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिम् । अ॒ग्निं रथा॑नां॒ यम॑म् ॥१०॥
103.11
उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति । दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाज॒ सिषा॑सतः ॥११॥
103.12
मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः । यः सु॒होता॑ स्वध्व॒रः ॥१२॥
103.13
मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवै॑ः । की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥१३॥
103.14
आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभि॒ः सोम॑पीतये । सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥१४॥