सर्ग 56
56.1
तद्दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः ।
क्रोधमाहारयामास युधि तीव्रमकम्पनः ।। ६.५६.१ ।।।।
56.2
क्रोधमूर्च्छितरूपस्तु धून्वन् परमकार्मुकम् ।
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ।। ६.५६.२ ।।।।
56.3
तत्रैव तावत्त्वरितं रथं प्रापय सारथे ।
यत्रैते बहवो घ्नन्ति सुबहून् राक्षसान् रणे ।। ६.५६.३ ।।।।
56.4
एते ऽत्र बलवन्तो हि भीमकायाश्च वानराः ।
द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ।। ६.५६.४ ।।।।
56.5
एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।
एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ।। ६.५६.५ ।।।।
56.6
ततः प्रजवनाश्वेन रथेन रथिनां वरः ।
हरीनभ्यहनत् क्रोधाच्छरजालैरकम्पनः ।। ६.५६.६ ।।।।
56.7
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।
अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ।। ६.५६.७ ।।।।
56.8
तान् मृत्युवशमापन्नानकम्पनवशं गतान् ।
समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ।। ६.५६.८ ।।।।
56.9
तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः ।
समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ।। ६.५६.९ ।।।।
56.10
अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः ।
बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ।। ६.५६.१० ।।।।
56.11
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।
महेन्द्र इव धाराभिः शरैरभिववर्ष ह ।। ६.५६.११ ।।।।
56.12
अचिन्तयित्वा बाणौघान् शरीरे पतितान् शितान् ।
अकम्पनवधार्थाय मनो दध्रे महाबलः ।। ६.५६.१२ ।।।।
56.13
स प्रसह्य महातेजा हनूमान् मारुतात्मजः ।
अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ।। ६.५६.१३ ।।।।
56.14
तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ।। ६.५६.१४ ।।।।
56.15
आत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः ।
शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ।। ६.५६.१५ ।।।।
56.16
तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः ।
स विनद्य महानादं भ्रामयामास वीर्यवान् ।। ६.५६.१६ ।।।।
56.17
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।
पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ।। ६.५६.१७ ।।।।
56.18
अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।
दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ।। ६.५६.१८ ।।।।
56.19
तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।
विशीर्णं पतितं दृष्ट्वा हनुमान् क्रोधमूर्च्छितः ।। ६.५६.१९ ।।।।
56.20
सो ऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।
तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ।। ६.५६.२० ।।।।
56.21
तं गृहीत्वा महास्कन्धं सो ऽश्वकर्णं महाद्युतिः ।
प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ।। ६.५६.२१ ।।।।
56.22
प्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान् ।
हनुमान् परमक्रुद्धश्चरणैर्दारयत् क्षितिम् ।। ६.५६.२२ ।।।।
56.23
गजांश्च सगजारोहान् सरथान् रथिनस्तथा ।
जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ।। ६.५६.२३ ।।।।
56.24
तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् ।
हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ।। ६.५६.२४ ।।।।
56.25
तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् ।
ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ।। ६.५६.२५ ।।।।
56.26
स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः ।
निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ।। ६.५६.२६ ।।।।
56.27
स तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः ।
हनुमान् ददृशे वीरः प्ररूढ इव सानुमान् ।। ६.५६.२७ ।।।।
56.28
विरराज महाकायो महावीर्यो महामनाः ।
पुष्पिताशोकसङ्काशो विधूम इव पावकः ।। ६.५६.२८ ।।।।
56.29
ततो ऽन्यं वृक्षमुत्पाट्य कत्वा वेगमनुत्तमम् ।
शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ।। ६.५६.२९ ।।।।
56.30
स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।
राक्षशो वानरेन्द्रेण पपात च ममार च ।। ६.५६.३० ।।।।
56.31
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।
व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ।। ६.५६.३१ ।।।।
56.32
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।
लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ।। ६.५६.३२ ।।।।
56.33
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः ।
स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ।। ६.५६.३३ ।।।।
56.34
अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात् ।
पृष्ठतस्ते सुसम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ।। ६.५६.३४ ।।।।
56.35
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।
समेत्य हरयः सर्वे हनुमन्तमपूजयन् ।। ६.५६.३५ ।।।।
56.36
सो ऽपि प्रहृष्टस्तान् सर्वान् हरीन् प्रत्यभ्यपूजयत् ।
हनुमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ।। ६.५६.३६ ।।।।
56.37
विनेदुश्च यथाप्राणं हरयो जितकाशिनः ।
चकर्षुश्च पुनस्तत्र सप्राणानपि राक्षसान् ।। ६.५६.३७ ।।।।
56.38
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः ।
महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ।। ६.५६.३८ ।।।।
56.39
अपूजयन् देवगणास्तदा कपिं स्वयं च रामो ऽतिबलश्च लक्ष्मणः ।
तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ।। ६.५६.३९ ।।