Utshovऐप डाउनलोड करें

सर्ग 42

42.1

ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।
न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ।। ६.४२.१ ।।।।

42.2

रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।
विधानं द्विगुणं कृत्वा प्रासादं सो ऽध्यरोहत ।। ६.४२.२ ।।।।

42.3

स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।
असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ।। ६.४२.३ ।।।।

42.4

स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् ।
कथं क्षपयितव्याः स्युरिति चिन्तापरो ऽभवत् ।। ६.४२.४ ।।।।

42.5

स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।
राघवं हरियूथांश्च ददर्शायतलोचनः ।। ६.४२.५ ।।।।

42.6

राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।
लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ।। ६.४२.६ ।।।।

42.7

दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।
जगाम सहसा सीतां दूयमानेन चेतसा ।। ६.४२.७ ।।।।

42.8

अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा ।
पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ।। ६.४२.८ ।।।।

42.9

पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् ।
क्षिप्रमाज्ञापयामास वानरान् द्विषतां वधे ।। ६.४२.९ ।।।।

42.10

एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा ।
सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् ।। ६.४२.१० ।।।।

42.11

शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ।
इति स्म दधिरे सर्वे मनांसि हरियूथपाः ।। ६.४२.११ ।।।।

42.12

उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च ।
तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ।। ६.४२.१२ ।।।।

42.13

प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ।। ६.४२.१३ ।।।।

42.14

ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।
लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः ।। ६.४२.१४ ।।।।

42.15

ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः ।
प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ।। ६.४२.१५ ।।।।

42.16

परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः ।
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ।। ६.४२.१६ ।।।।

42.17

ततः सहस्रयूथाश्च कोटीयूथाश्च वानराः ।
कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ।। ६.४२.१७ ।।।।

42.18

काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः ।
कैलासशिखराभाणि गोपुराणि प्रमथ्य च ।। ६.४२.१८ ।।।।

42.19

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
लङ्कां तामभिधावन्ति महावारणसन्निभाः ।। ६.४२.१९ ।।।।

42.20

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ।। ६.४२.२० ।।।।

42.21

इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ।। ६.४२.२१ ।।।।

42.22

वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ।
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ।एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ।। ६.४२.२२ ।।।।

42.23

पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः ।
आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ।। ६.४२.२३ ।।।।

42.24

साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः ।
पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ।। ६.४२.२४ ।।।।

42.25

दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः ।
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ।। ६.४२.२५ ।।।।

42.26

सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः ।
आवृत्य बलवांस्तस्थौ षष्टिकोटिभिरावृतः ।। ६.४२.२६ ।।।।

42.27

उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह ।
आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ।। ६.४२.२७ ।।।।

42.28

गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः ।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ।। ६.४२.२८ ।।।।

42.29

ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।
वृतः कोट्या महावीर्यस्तस्थो रामस्य पार्श्वतः ।। ६.४२.२९ ।।।।

42.30

सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।
वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ।। ६.४२.३० ।।।।

42.31

गजो गवाक्षो गवयः शरभो गन्धमादनः ।
समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् ।। ६.४२.३१ ।।।।

42.32

ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।
निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ।। ६.४२.३२ ।।।।

42.33

एतच्छुत्वा ततो वाक्यं रावणस्य मुखोद्गतम् ।
सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ।। ६.४२.३३ ।।।।

42.34

ततः प्रचोदिता भेर्यश्चन्द्रपाण्डरपुष्कराः ।
हेमकोणाहता भीमा राक्षसानां समन्ततः ।। ६.४२.३४ ।।।।

42.35

विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ।
राक्षसानां सुघोराणां मुखमारुतपूरिताः ।। ६.४२.३५ ।।।।

42.36

ते बभुः शुभनीलाङ्गाः सशङ्का रजनीचराः ।
विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ।। ६.४२.३६ ।।।।

42.37

निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।
समये पूर्यमाणस्य वेगा इव महोदधेः ।। ६.४२.३७ ।।।।

42.38

ततो वानरसैन्येन मुक्तो नादः समन्ततः ।
मलयः पूरितो येन स सानुप्रस्थकन्दरः ।। ६.४२.३८ ।।।।

42.39

शङ्खदुन्दुभिसङ्घुष्टः सिंहनादस्तरस्विनाम् ।
पृथिवीं चान्तरिक्षं च सागरं चैव नादयन् ।। ६.४२.३९ ।।।।

42.40

गजानां बृंहितैः सार्धं हयानां हेषितैरपि ।
रथानां नेमिघोषैश्च रक्षसां वदनस्वनः ।। ६.४२.४० ।।।।

42.41

एतस्मिन्नन्तरे घोरः सङ्ग्रामः समवर्तत ।
रक्षसां वानराणां च यथा देवासुरे पुरा ।। ६.४२.४१ ।।।।

42.42

ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।
निजघ्नुर्वानरान् घोराः कथयन्तः स्वविक्रमान् ।। ६.४२.४२ ।।।।

42.43

राजा जयति सुग्रीव इति शब्दो महानभूत् ।
। ६.४२.४३ ।।।।

42.44

राजन् जय जयेत्युक्त्वा स्वस्वनामकथान्ततः ।
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ।निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ।। ६.४२.४४ ।।।।

42.45

राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ।
भिन्दिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ।। ६.४२.४५ ।।।।

42.46

वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान् महीगताः ।
राक्षसान् पातयामासुः समाप्लुत्य प्लवङ्गमाः ।। ६.४२.४६ ।।।।

42.47

स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः ।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ।। ६.४२.४७ ।।

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.