सर्ग 118
118.1
सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ २.११८.१॥
118.2
नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।
विदितं तु ममाप्येतद्यथा नार्य्याः पतिर्गुरुः ॥ २.११८.२॥
118.3
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः ।
अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ २.११८.३॥
118.4
किं पुनर्यो गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः ।
स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ २.११८.४॥
118.5
यां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः ।
तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ २.११८.५॥
118.6
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः ।
मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ २.११८.६॥
118.7
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।
समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ २.११८.७॥
118.8
पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।
अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ २.११८.८॥
118.9
नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।
पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ २.११८.९॥
118.10
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।
तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ २.११८.१०॥
118.11
वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।
रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ २.११८.११॥
118.12
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः ।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ २.११८.१२॥
118.13
ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।
शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ २.११८.१३॥
118.14
नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।
तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ २.११८.१४॥
118.15
उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ २.११८.१५॥
118.16
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया ।
कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ २.११८.१६॥
118.17
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।
सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ २.११८.१७॥
118.18
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।
अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ २.११८.१८॥
118.19
मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।
अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ २.११८.१९॥
118.20
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।
शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ २.११८.२०॥
118.21
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २.११८.२१॥
118.22
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।
श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २.११८.२२॥
118.23
तथा सीतासुपासीनामनसूया दृढव्रता ।
वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २.११८.२३॥
118.24
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।
राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २.११८.२४॥
118.25
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २.११८.२५॥
118.26
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २.११८.२६॥
118.27
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।
क्षत्त्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ २.११८.२७॥
118.28
तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् ।
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २.११८.२८॥
118.29
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः ।
पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ २.११८.२९॥
118.30
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ २.११८.३०॥
118.31
अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।
एवमेतन्नरपते धर्मेण तनया तव ॥ २.११८.३१॥
118.32
ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः ।
अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ २.११८.३२॥
118.33
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।
तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ २.११८.३३॥
118.34
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।
चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ २.११८.३४॥
118.35
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।
प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ २.११८.३५॥
118.36
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः ।
चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ २.११८.३६॥
118.37
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।
सदृशं चानुरूपं च महीपालः पतिं मम ॥ २.११८.३७॥
118.38
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।
स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ २.११८.३८॥
118.39
महायज्ञे तदा तस्य वरुणेन महात्मना ।
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ २.११८.३९॥
118.40
असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।
तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ २.११८.४०॥
118.41
तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।
समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ २.११८.४१॥
118.42
इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः ।
तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ २.११८.४२॥
118.43
तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम् ।
अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ २.११८.४३॥
118.44
सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युतिः ।
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ।लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥ २.११८.४४॥
118.45
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ।
प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ २.११८.४५॥
118.46
सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।
धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ २.११८.४६॥
118.47
इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् ।
निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ २.११८.४७॥
118.48
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ २.११८.४८॥
118.49
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ।
तस्य शब्दो ऽभवद्भीमः पतितस्याशनेरिव ॥ २.११८.४९॥
118.50
ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।
निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ २.११८.५०॥
118.51
दीयमानां न तु तदा प्रतिजग्राह राघवः ।
अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ २.११८.५१॥
118.52
ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।
मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ २.११८.५२॥
118.53
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।
भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ २.११८.५३॥
118.54
एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।
अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ २.११८.५४ ॥