सर्ग 117
117.1
राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।
न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ २.११७.१॥
117.2
इह मे भरतो दृष्टो मातरश्च सनागराः ।
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ २.११७.२॥
117.3
स्कन्धावारनिवेशेन तेन तस्य महात्मनः ।
हयहस्तिकरीषैश्च उपमर्द्दः कृतो भृशम् ॥ २.११७.३॥
117.4
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः ।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥ २.११७.४॥
117.5
सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशाः ।
तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ॥ २.११७.५॥
117.6
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ २.११७.६॥
117.7
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।
सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ २.११७.७॥
117.8
अनसूयां महाभागां तापसीं धर्मचारिणीम् ।
प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ।रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ २.११७.८॥
117.9
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।
यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ २.११७.९॥
117.10
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।
दशवर्षसहस्राणि यया तप्तं महत्तपः ॥ २.११७.१०॥
117.11
अनसूया व्रतैः स्नाता प्रत्यूहाश्च निवर्त्तिताः ।
देवकार्यनिमित्तं च यया संत्वरमाणया ।दशरात्रं कृता रात्रिः सेयं मातेव ते ऽनघ ॥ २.११७.११॥
117.12
तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।
अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥ २.११७.१२॥
117.13
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ।
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ २.११७.१३॥
117.14
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।
श्रेयोर्थमात्मनः श्रीघ्रमभिगच्छ तपस्विनीम् ॥ २.११७.१४॥
117.15
सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः ।
तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ २.११७.१५॥
117.16
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।
सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ २.११७.१६॥
117.17
तां तु सीता महाभागामनसूयां पतिव्रताम् ।
अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ २.११७.१७॥
117.18
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ २.११७.१८॥
117.19
ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २.११७.१९॥
117.20
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २.११७.२०॥
117.21
नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ २.११७.२१॥
117.22
दुःशीलः कामवृत्तो वा धनैवा परिवर्जितः ।
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ २.११७.२२॥
117.23
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।
सर्वत्रयोग्यं वैदेहि तपःकृतमिवाव्ययम् ॥ २.११७.२३॥
117.24
न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रियः ।
कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति याः ॥ २.११७.२४॥
117.25
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।
अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ २.११७.२५॥
117.26
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः ।
स्त्रियः स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २.११७.२६॥
117.27
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।
भवस्व भर्त्तुः सहधर्मचारिणी यशश्च धर्मं च ततः समाप्स्यसि ॥ २.११७.२७ ॥