Utshovऐप डाउनलोड करें

सूक्त 61

61.1

१९ श्यावाश्व आत्रेयः। १-४, ११-१६ मरुतः, ५-८ तरन्तमहिषी शशीयसी, ९ वैददश्विः पुरुमीळहः, १० वैददश्विस्तरन्तः, १७-१९ दार्भ्यो रथवीतिः। गायत्री, ३ निचृत्, ५ अनुष्टुप्, ९ सतोबृहती ।

के ष्ठा॑ नर॒ः श्रेष्ठ॑तमा॒ य एक॑एक आय॒य । प॒र॒मस्या॑ः परा॒वत॑ः ॥१॥

61.2

क्व१ वोऽश्वा॒ः क्वा॒३भीश॑वः क॒थं शे॑क क॒था य॑य । पृ॒ष्ठे सदो॑ न॒सोर्यम॑ः ॥२॥

61.3

ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः । पु॒त्र॒कृ॒थे न जन॑यः ॥३॥

61.4

परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः । अ॒ग्नि॒तपो॒ यथास॑थ ॥४॥

61.5

सन॒त् साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यम् । श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥५॥

61.6

उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी । अदे॑वत्रादरा॒धस॑ः ॥६॥

61.7

वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य॑न्तं॒ वि का॒मिन॑म् । दे॒व॒त्रा कृ॑णु॒ते मन॑ः ॥७॥

61.8

उ॒त घा॒ नेमो॒ अस्तु॑त॒ः पुमाँ॒ इति॑ ब्रुवे प॒णिः । स वैर॑देय॒ इत् स॒मः ॥८॥

61.9

उ॒त मे॑ऽरपद् युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम् ।
वि रोहि॑ता पुरुमी॒ळहाय॑ येमतु॒र्विप्रा॑य दी॒र्घय॑शसे ॥९॥

61.10

यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् । त॒र॒न्त इ॑व मं॒हना॑ ॥१०॥

61.11

य ईं॒ वह॑न्त आ॒शुभि॒ः पिब॑न्तो मदि॒रं मधु॑ । अत्र॒ श्रवां॑सि दधिरे ॥११॥

61.12

येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राज॑न्ते॒ रथे॒ष्वा । दि॒वि रु॒क्म इ॑वो॒परि॑ ॥१२॥

61.13

युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः । शु॒भं॒यावाप्र॑तिष्कुतः ॥१३॥

61.14

को वे॑द नू॒नमे॑षां॒ यत्रा॒ मद॑न्ति॒ धूत॑यः । ऋ॒तजा॑ता अरे॒पस॑ः ॥१४॥

61.15

यू॒यं मर्तं॑ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या । श्रोता॑रो॒ याम॑हूतिषु ॥१५॥

61.16

ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्च॒न्द्रा रि॑शादसः । आ य॑ज्ञियासो ववृत्तन ॥१६॥

61.17

ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा॑ वह । गिरो॑ देवि र॒थीरि॑व ॥१७॥

61.18

उ॒त मे॑ वोचता॒दिति॑ सु॒तसो॑मे॒ रथ॑वीतौ । न कामो॒ अप॑ वेति मे ॥१८॥

61.19

ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ । पर्व॑ते॒ष्वप॑श्रितः ॥१९॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.