अध्याय 216
216.1
युधिष्ठिर उवाच
यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम्
कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह
216.2
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वासवस्य च संवादं बलेर्वैरोचनस्य च
216.3
पितामहमुपागत्य प्रणिपत्य कृताञ्जलिः
सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः
216.4
यस्य स्म ददतो वित्तं न कदाचन हीयते
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्
216.5
स एव ह्यस्तमयते स स्म विद्योतते दिशः
स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्
216.6
स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः
सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत
तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम्
216.7
ब्रह्मोवाच
नैतत्ते साधु मघवन्यदेतदनुपृच्छसि
पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम्
216.8
उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः
वरिष्ठो भविता जन्तुः शून्यागारे शचीपते
216.9
शक्र उवाच
यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान्
हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम्
216.10
ब्रह्मोवाच
मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति
न्यायांस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया
216.11
भीष्म उवाच
एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा
चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः
216.12
ततो ददर्श स बलिं खरवेषेण संवृतम्
यथाख्यातं भगवता शून्यागारकृतालयम्
216.13
शक्र उवाच
खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव
इयं ते योनिरधमा शोचस्याहो न शोचसि
216.14
अदृष्टं बत पश्यामि द्विषतां वशमागतम्
श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम्
216.15
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन्
216.16
त्वन्मुखाश्चैव दैतेया व्यतिष्ठंस्तव शासने
अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह
इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि
216.17
यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन्
ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम्
216.18
यत्ते सहस्रसमिता ननृतुर्देवयोषितः
बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया
216.19
सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः
कथमद्य तदा चैव मनस्ते दानवेश्वर
216.20
छत्रं तवासीत्सुमहत्सौवर्णं मणिभूषितम्
ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा
216.21
यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः
यत्राददः सहस्राणामयुतानि गवां दश
216.22
यदा तु पृथिवीं सर्वां यजमानोऽनुपर्ययाः
शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि
216.23
न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च
ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप
216.24
बलिरुवाच
न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च
ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव
216.25
गुहायां निहितानि त्वं मम रत्नानि पृच्छसि
यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि
216.26
न त्वेतदनुरूपं ते यशसो वा कुलस्य वा
समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि
216.27
न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु
कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः
216.28
त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे
यदाहमिव भावी त्वं तदा नैवं वदिष्यसि