Utshovऐप डाउनलोड करें

अध्याय 76

76.1

वैशंपायन उवाच
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी

76.2

तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा
तमेव देशं संप्राप्ता यथाकामं चचार सा
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम्

76.3

क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम्
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च

76.4

पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया
तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः

76.5

ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः

76.6

उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम्
शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः

76.7

ययातिरुवाच
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते
गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम्

76.8

देवयान्युवाच
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्

76.9

इयं च मे सखी दासी यत्राहं तत्र गामिनी
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः

76.10

ययातिरुवाच
कथं नु ते सखी दासी कन्येयं वरवर्णिनी
असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे

76.11

देवयान्युवाच
सर्व एव नरव्याघ्र विधानमनुवर्तते
विधानविहितं मत्वा मा विचित्राः कथाः कृथाः

76.12

राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च
किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे

76.13

ययातिरुवाच
ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः

76.14

देवयान्युवाच
केनास्यर्थेन नृपते इमं देशमुपागतः
जिघृक्षुर्वारिजं किंचिदथ वा मृगलिप्सया

76.15

ययातिरुवाच
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः
बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि

76.16

देवयान्युवाच
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह
त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव

76.17

ययातिरुवाच
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि
अविवाह्या हि राजानो देवयानि पितुस्तव

76.18

देवयान्युवाच
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम्
ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम्

76.19

ययातिरुवाच
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने
पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः

76.20

देवयान्युवाच
पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः

76.21

कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया

76.22

ययातिरुवाच
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्
दुराधर्षतरो विप्रः पुरुषेण विजानता

76.23

देवयान्युवाच
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ

76.24

ययातिरुवाच
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः

76.25

दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्

76.26

देवयान्युवाच
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया
अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः

76.27

वैशंपायन उवाच
त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः
श्रुत्वैव च स राजानं दर्शयामास भार्गवः

76.28

दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः

76.29

देवयान्युवाच
राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत्
नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे

76.30

शुक्र उवाच
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया
गृहाणेमां मया दत्तां महिषीं नहुषात्मज

76.31

ययातिरुवाच
अधर्मो न स्पृशेदेवं महान्मामिह भार्गव
वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम्

76.32

शुक्र उवाच
अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम्
अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते

76.33

वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्
अनया सह संप्रीतिमतुलां समवाप्स्यसि

76.34

इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी
संपूज्या सततं राजन्मा चैनां शयने ह्वयेः

76.35

वैशंपायन उवाच
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्
जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.