Utshovऐप डाउनलोड करें

अध्याय 36

36.1

ऋचं॒ वाचं॒ प्र प॑द्ये॒ मनो॒ यजु॒ः प्र प॑द्ये॒ साम॑ प्रा॒णं प्र प॑द्ये॒ चक्षु॒ः श्रोत्रं॒ प्र प॑द्ये ।
वागोज॑ः स॒हौजो॒ मयि॑ प्राणापा॒नौ ॥१॥

36.2

यन्मे॑ छि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृण्णं॒ बृह॒स्पति॑र्मे॒ तद्द॑धातु ।
शं नो॑ भवतु॒ भुव॑नस्य॒ यस्पति॑ः ॥२॥

36.3

भूर्भुव॒ः स्व॒ः तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑ः प्रचो॒दया॑त् ॥३॥

36.4

कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑ध॒ः सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता ॥४॥

36.5

कस्त्वा॑ स॒त्यो मदा॑नां॒ मᳪहि॑ष्ठो मत्स॒दन्ध॑सः । दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ॥५॥

36.6

अ॒भी षु ण॒ः सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तिभि॑ः ॥६॥

36.7

कया॒ त्वं न ऊ॒त्याभि प्र म॑न्दसे वृषन् । कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥७॥

36.8

इन्द्रो॒ विश्व॑स्य राजति । शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥८॥

36.9

शं नो॑ मि॒त्रः शं वरु॑ण॒ः शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पति॒ः शं नो॒ विष्णु॑रुरुक्र॒मः ॥९॥

36.10

शं नो॒ वात॑ः पवता॒ᳪ शं न॑स्तपतु॒ सूर्य॑ः ।
शं न॒ः कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ अ॒भि व॑र्षतु ॥१०॥

36.11

अहा॑नि॒ शं भव॑न्तु न॒ः शᳪ रात्री॒ः प्रति॑ धीयताम् ।
शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒ः शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या ।
शं न॑ इन्द्रापू॒षणा॒ वाज॑सातौ॒ शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः ॥११॥

36.12

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं योर॒भि स्र॑वन्तु नः ॥१२॥

36.13

स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒ः शर्म॑ स॒प्रथा॑ः ॥१३॥

36.14

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥१४॥

36.15

यो व॑ः शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑ः । उ॒श॒तीरि॑व मा॒तर॑ः ॥१५॥

36.16

तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥१६॥

36.17

द्यौः शान्ति॑र॒न्तरि॑क्ष॒ᳪ शान्ति॑ः पृथि॒वी शान्ति॒राप॒ः शान्ति॒रोष॑धय॒ः शान्ति॑ः ।
वन॒स्पत॑य॒ः शान्ति॒र्विश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्ति॒ः सर्व॒ᳪ शान्ति॒ः शान्ति॑रे॒व शान्ति॒ः सा मा॒ शान्ति॑रेधि ॥१७॥

36.18

दृते॒ दृᳪह॑ मा मि॒त्रस्य॑ मा॒ चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षन्ताम् ।
मि॒त्रस्या॒हं चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षे ।
मि॒त्रस्य॒ चक्षु॑षा॒ समी॑क्षामहे ॥१८॥

36.19

दृते॒ दृᳪह॑ मा । ज्योक्ते॑ स॒न्दृशि॑ जीव्यासं॒ ज्योक्ते॑ स॒न्दृशि॑ जीव्यासम् ॥१९॥

36.20

नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ ।
अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑ः पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व ॥२०॥

36.21

नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑ । नम॑स्ते भगवन्नस्तु॒ यत॒ः स्व॒ः स॒मीह॑से ॥२१॥

36.22

यतो॑-यतः स॒मीह॑से॒ ततो॑ नो॒ अभ॑यं कुरु । शं न॑ः कुरु प्र॒जाभ्योऽभ॑यं नः प॒शुभ्य॑ः ॥२२॥

36.23

सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥२३॥

36.24

तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमुच्च॑रत् । पश्ये॑म श॒रद॑ः श॒तं जीवे॑म श॒रद॑ः श॒तᳪ शृणु॑याम श॒रद॑ः श॒तं प्र ब्र॑वाम श॒रद॑ः श॒तमदी॑नाः स्याम श॒रद॑ः श॒तं भूय॑श्च श॒रद॑ः श॒तात् ॥२४॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.