शुक्ल यजुर्वेद (माध्यन्दिन) 36.11
अहा॑नि॒ शं भव॑न्तु न॒ः शᳪ रात्री॒ः प्रति॑ धीयताम् ।
शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒ः शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या ।
शं न॑ इन्द्रापू॒षणा॒ वाज॑सातौ॒ शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः ॥११॥