सर्ग 61
61.1
ततो रामो भहातेजा धनुरादाय वीर्यवान् ।
किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ।। ६.६१.१ ॥
61.2
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।
क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ।सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् ।। ६.६१.२ ॥
61.3
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ।
। ६.६१.३ ॥
61.4
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् ।
सविस्मयमिदं रामो विभीषणमुवाच ह ।। ६.६१.४ ॥
61.5
को ऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः ।
लङ्कायां दृश्यते वीर सविद्युदिव तोयदः ।। ६.६१.५ ॥
61.6
पृथिव्याः केतुभूतो ऽसौ महानेको ऽत्र दृश्यते ।
यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ।। ६.६१.६ ॥
61.7
आचक्ष्व मे महान् को ऽसौ रक्षो वा यदि वा ऽसुरः ।
न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ।। ६.६१.७ ॥
61.8
स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा ।
विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ।। ६.६१.८ ॥
61.9
येन वैवस्वतो युद्धे वासवश्च पराजितः ।
सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ।अस्य प्रमाणात् सदृशो राक्षसो ऽन्यो न विद्यते ।। ६.६१.९ ॥
61.10
एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च ।
गन्धर्वविद्याधरकिन्नराश्च सहस्रशो राघव सम्प्रभग्राः ।। ६.६१.१० ॥
61.11
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।
हन्तुं न शेकुस्त्रिदशाः कालो ऽयमिति मोहिताः ।। ६.६१.११ ॥
61.12
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।
अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ।। ६.६१.१२ ॥
61.13
एतेन जातमात्रेण क्षुधार्तेन महात्मना ।
भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ।। ६.६१.१३ ॥
61.14
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः ।
यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ।। ६.६१.१४ ॥
61.15
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री ।
स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ।। ६.६१.१५ ॥
61.16
तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः ।
श्रुत्वा ऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ।। ६.६१.१६ ॥
61.17
तत्र कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः ।
विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ।। ६.६१.१७ ॥
61.18
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः ।
ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ।। ६.६१.१८ ॥
61.19
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः ।
कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ।। ६.६१.१९ ॥
61.20
प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ।
आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ।। ६.६१.२० ॥
61.21
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।
अचिरेणैव कालेन शून्यो लोको भविष्यति ।। ६.६१.२१ ॥
61.22
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।
रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ।। ६.६१.२२ ॥
61.23
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।
दृष्ट्वा विश्वास्य चैवेदं स्वयम्भूरिदमब्रवीत् ।। ६.६१.२३ ॥
61.24
ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः ।
तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ।। ६.६१.२४ ॥
61.25
ब्रह्मशापाभिभूतो ऽथ निपपाताग्रतः प्रभोः ।
ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ।। ६.६१.२५ ॥
61.26
विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ।
न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ।। ६.६१.२६ ॥
61.27
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।
कालस्तु क्रियतामस्य शयने जागरे तथा ।। ६.६१.२७ ॥
61.28
रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ।
। ६.६१.२८ ॥
61.29
शयति ह्येष षण्मासानेकाहं जागरिष्यति ।
एकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः ।व्यात्तास्यो भक्षयेल्लोकान् सक्रुद्ध इव पावकः ।। ६.६१.२९ ॥
61.30
सो ऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ।
त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ।। ६.६१.३० ॥
61.31
स एष निर्गतो वीरः शिबिराद्भीमविक्रमः ।
वानरान् भृशसङ्क्रुद्धो भक्षयन् परिधावति ।। ६.६१.३१ ॥
61.32
कुम्भकर्णं समीक्ष्यैव हरयो ऽद्य प्रविद्रुताः ।
कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ।। ६.६१.३२ ॥
61.33
उच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम् ।
इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ।। ६.६१.३३ ॥
61.34
विभीषणवचः श्रुत्वा हेतुमत् सुमुखेरितम् ।
उवाच राघवो वाक्यं नीलं सेनापतिं तदा ।। ६.६१.३४ ॥
61.35
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।
द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् ।। ६.६१.३५ ॥
61.36
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहर ।
तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ।। ६.६१.३६ ॥
61.37
राघवेण समादिष्टो नीलो हरिचमूपतिः ।
शशास वानरानीकं यथावत् कपिकुञ्जरः ।। ६.६१.३७ ॥
61.38
ततो गवाक्षः शरभो हनुमानङ्गदस्तथा ।
शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ।। ६.६१.३८ ॥
61.39
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।
पादपैरर्दयन् वीरा वानराः परवाहिनीम् ।। ६.६१.३९ ॥
61.40
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतदीप्तहस्तम् ।
गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ।। ६.६१.४० ॥
61.41
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकषष्टितमः सर्गः ।
। ६१ ।।