Utshovऐप डाउनलोड करें

सूक्त 22

22.1

७ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।

ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिन॑ः । सर्गा॑ः सृ॒ष्टा अ॑हेषत ॥१॥

22.2

ए॒ते वाता॑ इवो॒रव॑ः प॒र्जन्य॑स्येव वृ॒ष्टय॑ः । अ॒ग्नेरि॑व भ्र॒मा वृथा॑ ॥२॥

22.3

ए॒ते पू॒ता वि॑प॒श्चित॒ः सोमा॑सो॒ दध्या॑शिरः । वि॒पा व्या॑नशु॒र्धिय॑ः ॥३॥

22.4

ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः । इय॑क्षन्तः प॒थो रज॑ः ॥४॥

22.5

ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या॑नशुः । उ॒तेदमु॑त्त॒मं रज॑ः ॥५॥

22.6

तन्तुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत । उ॒तेदमु॑त्त॒माय्य॑म् ॥६॥

22.7

त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः । त॒तं तन्तु॑मचिक्रदः ॥७॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.