Utshovऐप डाउनलोड करें

सूक्त 21

21.1

७ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।

ए॒ते धा॑व॒न्तीन्द॑व॒ः सोमा॒ इन्द्रा॑य॒ घृष्व॑यः । म॒त्स॒रास॑ः स्व॒र्विद॑ः ॥१॥

21.2

प्र॒वृ॒ण्वन्तो॑ अभि॒युज॒ः सुष्व॑ये वरिवो॒विद॑ः । स्व॒यं स्तो॒त्रे व॑य॒स्कृत॑ः ॥२॥

21.3

वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् । सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥३॥

21.4

ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत । हि॒ता न सप्त॑यो॒ रथे॑ ॥४॥

21.5

आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ । यो अ॒स्मभ्य॒मरा॑वा ॥५॥

21.6

ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ । शु॒क्राः प॑वध्व॒मर्ण॑सा ॥६॥

21.7

ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत । स॒तः प्रासा॑विषुर्म॒तिम् ॥७॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.