सूक्त 114
114.1
४ कश्यपो मारीचः । पवमानः सोमः । पङ्क्तिः ।
य इन्दो॒ः पव॑मान॒स्याऽनु॒ धामा॒न्यक्र॑मीत् ।
तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥१॥
114.2
ऋषे॑ मन्त्र॒कृतां॒ स्तोमै॒ः कश्य॑पोद्व॒र्धय॒न्गिर॑ः ।
सोमं॑ नमस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥२॥
114.3
स॒प्त दिशो॒ नाना॑सूर्याः स॒प्त होता॑र ऋ॒त्विज॑ः ।
दे॒वा आ॑दि॒त्या ये स॒प्त तेभि॑ः सोमा॒भि र॑क्ष न॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥३॥
114.4
यत्ते॑ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः ।
अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ न॒ः किं च॒नाम॑म॒दिन्द्रा॑येन्दो॒ परि॑ स्रव ॥४॥