Utshovऐप डाउनलोड करें

सूक्त 55

55.1

८ मैत्रावरुणिर्वसिष्ठः। वास्तोष्पतिः, २- ८ इन्द्रः( २-८ प्रस्वापिनी उपनिषद् ) ।१ गायत्री, २-४ उपरिष्टाद्बृहती, ५-८ अनुष्टुप् ।

अ॒मी॒व॒हा वा॑स्तोष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् । सखा॑ सु॒शेव॑ एधि नः ॥१॥

55.2

यद॑र्जुन सारमेय द॒तः पि॑शङ्ग॒ यच्छ॑से । वी॑व भ्राजन्त ऋ॒ष्टय॒ उप॒ स्रक्वे॑षु॒ बप्स॑तो॒ नि षु स्व॑प ॥२॥

55.3

स्ते॒नं रा॑य सारमेय॒ तस्क॑रं वा पुनःसर । स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥३॥

55.4

त्वं सू॑क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः । स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥४॥

55.5

सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पति॑ः । स॒सन्तु॒ सर्वे॑ ज्ञा॒तय॒ः सस्त्व॒यम॒भितो॒ जन॑ः ॥५॥

55.6

य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जन॑ः । तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥६॥

55.7

स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् । तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥७॥

55.8

प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः । स्त्रियो॒ याः पुण्य॑गन्धा॒स्ताः सर्वा॑ः स्वापयामसि ॥८॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.