Utshovऐप डाउनलोड करें

सूक्त 175

175.1

६ अगस्त्यो मैत्रावरुणिः । इन्द्रः। १ स्कंधोग्रीवी बृहती, २-५ अनुष्टुप्, ६ त्रिष्टुप्।

मत्स्यपा॑यि ते॒ मह॒ः पात्र॑स्येव हरिवो मत्स॒रो मद॑ः ।
वृषा॑ ते॒ वृष्ण॒ इन्दु॑र्वा॒जी स॑हस्र॒सात॑मः ॥१॥

175.2

आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे॑ण्यः । स॒हावाँ॑ इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ॥२॥

175.3

त्वं हि शूर॒ः सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ॑म् । स॒हावा॒न् दस्यु॑मव्र॒तमोष॒ः पात्रं॒ न शो॒चिषा॑ ॥३॥

175.4

मु॒षा॒य सूर्यं॑ कवे च॒क्रमीशा॑न॒ ओज॑सा । वह॒ शुष्णा॑य व॒धं कुत्सं॒ वात॒स्याश्वै॑ः ॥४॥

175.5

शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतु॑ः । वृ॒त्र॒घ्ना व॑रिवो॒विदा॑ मंसी॒ष्ठा अ॑श्व॒सात॑मः ॥५॥

175.6

यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.