Utshovऐप डाउनलोड करें

सूक्त 170

170.1

(५) १,३,४ इन्द्रः, (४अगस्त्यो वा,) २,५ अगस्त्यो मैत्रावरुणिः । इन्द्रः। १बृहती, २-४ अनुष्टुप्, ५ त्रिष्टुप्।

न नू॒नमस्ति॒ नो श्वः कस्तद् वे॑द॒ यदद्भु॑तम् ।
अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥१॥

170.2

किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ ।
तेभि॑ः कल्पस्व साधु॒या मा न॑ः स॒मर॑णे वधीः ॥२॥

170.3

किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे ।
वि॒द्मा हि ते॒ यथा॒ मनो॒ ऽस्मभ्य॒मिन्न दि॑त्ससि ॥३॥

170.4

अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः ।
तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥४॥

170.5

त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठ॑ः ।
इन्द्र॒ त्वं म॒रुद्भि॒ः सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥५॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.